SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १.४] भभास्करभाष्योपेता 353 साध्वीमकदेवीतिं नो अद्य यज्ञस्य जिह्वामविदाम गुह्याम् । स आयुनाम् । उत । मध्यै । इद्धः । साध्वीम् । अकः। देवीतिमिति देव-वीतम् । नः । अद्य । यज्ञस्य । जिह्वाम् । अविदाम । गुह्याम् । सः। तत्रैव याज्या-साध्वीमिति त्रिष्टुप् ॥ यस्माद्वयं यज्ञस्यास्य जिह्वां जिह्वास्थानीयं भगवन्तमग्निमविदाम ज्ञातवन्तः लब्धवन्तो वा । वेत्तेविन्दतेर्वा व्यत्ययेन शप्रत्ययः, नुमभावश्च । कीदृशीं जिह्वां ? गुह्यामविदुषां गूहनीयाम् । गुहायां भवेति दिगादित्वा द्यत् , ' यतोऽनावः' इत्याद्युदात्तत्वम् । तादृशीं तां भक्तिसामर्थ्याद्वयमविदाम । तस्मादद्य अस्मिन्नह्नि, नः अस्माकमस्माभिः क्रियमाणां देववीतिं देवभक्ष* देवपूजां वा साध्वीं शोभनां अकः करोतु । 'छन्दसि लुङ्किटः' इति लुङ्, 'मन्त्रे घस' इत्यादिना च्लेलृक् । किञ्च–स एवाग्निः आयुः वसानः आच्छादयन् आयुषा परिवीयमाणः अस्मान्वा आयुषा परिवारयन् आयुष्मतोस्मान्कुर्वन्, सुरभिस्सुगन्धिः चरुपुरोडाशादिगन्धयुक्तः अस्मानागादागच्छतु । पूर्ववल्लुङ्, 'गातिस्था' इत्यादिना सिचो लुक् । आगत्य चास्माकमायुरर्थे, अद्यास्मिन्नहनि नः अस्माकं देवहूतिं देवा हूयन्ते अस्यामिति देवहूतिरािष्टिः तां भद्रां शोभनां यथोक्तमनुतिष्ठतां अकः करोतु इति । स एव लुङ् । देववीतिदेवहूतिशब्दयोः दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् ॥ *तं.-देवभाक्त For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy