SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 352 तैत्तिरीयसंहिता [का... प्र. ३. पस्थे मातुस्सुरभावु लोके । युवा कविः पुरुनिष्ठः ॥ २४ ॥ ऋतावा धर्ता कृष्टीनामुत मध्य युद्धः। यजीयान् । उपस्थ इत्युप-स्थे । मातुः। सुरौ। उ । लोके । युवा । कविः । पुरुनिष्ठ इति पुरुनिष्ठः ॥ २४ ॥ ऋतावेत्यृत-वा । धर्ता । कृष्टीअग्नितेति त्रिष्टुप् ॥ होता देवानामाह्वाता । पूर्ववत्सम्प्रसारणम् । यजीयान् यष्टतमः मानुषाद्धोतुः । —तुश्छन्दसि' इति यष्टशब्दादीयसुन्प्रत्ययः, 'तुरिष्ठेमेयस्सु' इति टिलोपः । युवा नित्यतरुणः । कविर्मेधावी । पुरुनिष्ठः पुरुषु बहुषु स्थानेषु स्थितः । 'आतश्योपसर्गे ' इति कः, थावादिस्वरेणोत्तरपदान्तोदात्तत्वम् । ऋतावा ऋतवान् यज्ञवान् । 'छन्दसीवनिपौ' इति वनिपप्रत्ययः, 'अन्येषामपि दृश्यते' इति दीर्घः । धर्ता धारयिता कृष्टीनां मनुष्याणाम् । 'नामन्यतरस्याम् । इति नाम उदात्तत्वम् । उत अपि च मध्ये तेषां मनुष्याणां हृदये इद्धः दीप्तः । एवं सर्वोपकारी सर्वसद्गुणान्वितोऽयमग्निः मातुः मातृस्थानीयाया वेदेः, निर्माच्या वा श्रेयसामुपस्थे उपस्थस्थानीये उत्सङ्गसदृशे* सुरभौ शोभनहविर्गन्धयुक्त लोके आलोकवति अस्मिन्प्रदेशे निषसाद निषीदति । 'छन्दसि लुइतिट:' इति लिट् । सोयमस्माकं भेषजं करोत्विति भावः । 'एषा वा अस्य भेषज्या तनूर्यत्सुरभिमतीइति ब्राह्मणम् ॥ *क-उपस्थस्थाने कीदृशे. सिं. २-२-२, For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy