________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ८.]
भट्टभास्करभाष्योपेता
317
घृतस्य कुल्याम सह प्रजया सह रायस्पोषेणापो देवीश्शुद्धायुवश्शु
द्वा यूयं देवा ऊच शुद्धा वयं आतानेत्या-तान। अनर्वा। प्रेति। इहि । घृतस्य। कुल्याम् । अन्विति । सह । प्रजयति प्र-जयो । सह । रायः । पोषेण । "आपः । देवीः । शुद्धायुव इति शुद्ध-युवः । शुद्धाः । यूयम् ।
15अपोवेक्षमाणां पत्नी वाचयति--आपो देवीरिति चतुष्पदयानुष्टुभा विद्युन्मालया ॥ हे आपो देवीः देव्यः । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । शुद्धायुवः शुद्धा आपः शुद्धान् देशकालादीनिच्छन्ति आत्मनः परेषां वा । 'छन्दसि परेच्छायामपि ' इति क्यच् , 'नच्छन्दस्यपुत्रस्य' इतीत्वप्रतिषेधे ‘अकत्सार्वधातुकयोः' इति दीर्घः, 'क्याच्छन्दसि' इत्युप्रत्ययः, 'जसादिषु वा वचनं प्राङ्कौ चङ्युपधाया' इति 'जसि च ' इति गुणो न क्रियते । अथवा-अब्जातेश्शुद्धायुरिति संज्ञा, व्युत्पत्तिमात्रं तु क्रियते । तत्र 'अप्राणिजातेश्चारज्ज्वादीनाम् ' इत्यू प्रत्ययः, 'तन्वादीनां छन्दसि' इत्युवङ्, 'विभाषितं विशेषवचने बहुवचनम् ' इति आप इत्यस्यामन्त्रितस्याविद्यमानवत्वनिषेधात्परमामन्त्रितद्वयं निहन्यते । शुद्धास्स्वयमपि सर्वदा शुद्धाः यूयं देवान् पशोर्वागादीनीन्द्रियाणि उद्धं प्रापयध्वं स्वकारणस्थानं प्रापयत । यहा-इमं पशुं देवान् उद्वं वाहयत प्रापयत, यथा
*43
For Private And Personal Use Only