________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
316
तैत्तिरीयसंहिता
[का. १. ३.
पाहि नमस्त आतानानुर्वा प्रेहि सम्पृच इति सं-पृचः । पाहि । "नमः।ते।
यहा-आतन्यन्ते विस्तार्यन्ते मास्करणेत्यातानाः रश्मयः । कर्मणि घञ् , थायादिस्वरेणोत्तरपदान्तोदात्तत्वम् । अत्र तु तद्वाना दित्य एवातान इत्युच्यते ॥
__ "प्राचीमुदानयन्वाचयति-अनर्वा प्रेहीति ॥ कुत्सितमरणं गमनमर्वा; ' भ्रातृव्यो वा अर्वा '* इति च ब्राह्मणम् । 'अवद्यावमाधमार्वरेफाः कुत्सिते' इत्यर्तेः कनिन् प्रत्ययोर्वादेशश्च निपात्यते तद्रहित अनर्वा । बहुव्रीहौ ' नसुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । यस्मात्त्वमनर्वा अनवद्या सदा भर्तुर्वशंगता तस्मात्प्रेहि प्राची गच्छ, प्राच्यां हि स्वर्गो लोकः । प्रशब्देन प्राक्तुं द्योत्यते, यथा 'प्रेयमगात् ' इति । अधुना परमसुखस्वरूपस्वर्गप्राप्तिहेतुत्वं गमनस्याह-घृतस्य कुल्या मन्विति । घृतकुल्योपलक्षितस्वर्गाख्यस्थानविशेषो घृतकुल्याशब्देनोच्यते, तामनुगच्छ तत्र गच्छेत्यर्थः । अनोर्लक्षणे कर्मप्रवचनीयत्वम् । किमेकाकिनी सती ! नेत्याह-सह प्रजया सह रायपोषेण गच्छ । यद्वाकिं केवलं घृतकुल्योपलक्षितं स्थानमेव प्राप्यते ? नेत्याह-सह प्रजया सह रायस्पोषेण प्रनां धनपोषं च प्रामुहीति । प्रजाशब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । 'उडिदम् ' इति रैशब्दात्परस्या विभक्तेरुदात्तत्वम् ॥
*सं, ६-३-८.
सिं, १-१-२३
For Private And Personal Use Only