SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 तैत्तिरीयसंहिता का. १. प्र. १ निर्वपा म्युग्नीषोमाभ्या"मिदं देवानां मिदमुनस्सह "स्कात्यै त्वा नारत्यैि "सुवरभि विख्येषं वैश्वाच' इति पूर्वोत्तरपदयोः युगपत् प्रकृतिस्वरत्वम् । अत्र च 'देवस्य त्वा' इत्यादि, 'जुष्टं निर्वपामि' इति चानुषज्यते ॥ "1"निरुप्तानभिमृशति-इदं देवानामिति ॥ इदं निरुप्तं धान्यं देवानां स्वं, तदुद्देशेन निरुप्तत्वात् । अन्यस्माद्द्यावृत्तमभूदित्यर्थः ।। निरुप्तशेषमभिमृशति-इदमु नस्सहेति ॥ इदं निरुप्तशेषं नः अस्माकं भवतु । उशब्दः पूर्वस्माद्यावृत्त्यै । तुशब्दो वा लुप्ततकारः । किमस्माकमेव ? नेत्याह । सहैव देवैः इदमस्माकं स्वम् । न निरुप्तवद्देवानामेव, न चास्माकमैहिकभोगायैव । तत्र शेषस्य निरुप्ते यदा आवापः, तदा यागोत्तरकालं शेषभक्षणेन साधारणत्वम् । यदा. तु कोष्टादौ, तदा तदुत्तरस्यामिष्टयामुभयं भविष्यतीति साधारण्यम् ॥ निरुप्ते कोष्ठादौ वाऽवशिष्टमावपति--स्फात्यै त्वेति ॥ स्कायी ओप्यायी वृद्धौ । ण्यन्तात् क्तिन्, 'तितुत्रतथसिसुसरकेषु च। इतीट्सतिषेधः, णिलोपयलोपौ । उदात्तनिवृत्तिस्वरेण क्तिन उदातत्वम् । 'उदात्तयणो हल्पूर्वात् ' इति विभक्तेरुदात्तत्वम् । स्फात्यै वर्धनाय अस्मदीयं धान्यं वर्धयितुं त्वामवशिष्टमावपामीति शेषः । नारात्य, तत्र वर्धितं नादानाय, अपि तु दानाथैव दानार्थमेवेति । रातेः क्तिनि अव्ययपूर्वपदप्रकृतिस्वरत्वम् ।। - 13आहवनीयमन्वीक्षते-सुवरिति ॥ सुष्टु श्रेयांसि गमयतीति सुवः । अन्तर्भावितण्यर्थात् 'अन्येभ्योपि दृश्यते' इति विच् । For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy