SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir का. १. प्र. ३. 288 तैत्तिरीयसंहिता वन्देवय॒ज्याय देवस्त्वा सविता मानक्वोषधे त्रायस्वैन स्वधिअविदम् । परः । अवरैः । तम् । त्वा । जुषे । वैष्णवम् । देवयज्याया इति देव-यज्याय । देवः। त्वा । सविता । मध्वा । अनक्तु । ओषधे । त्राय॑स्व । एनम् । 'स्वर्धित इति स्व-धिते । मा । विष्णुदेवत्यं, 'वैष्णवो वै देवतया यूपः '* इति । 'छन्दसि निष्टl' इत्यादिना देवयज्याशब्दो यप्रत्ययान्तो निपातितः । ' अति ह्यन्यानेति नान्यानुपैति '* इत्यादि ब्राह्मणम् ॥ __'यूपमाज्येनानक्ति-देवस्त्वेति ॥ हे वृक्ष देवस्सविता सर्वस्य प्रेरकस्त्वां मध्वा मदनीयेन मधुरेणाज्येन अनक्तु स्निग्धं करोतु । 'फलिपाटिनमिमनिजनाङ्गक्पटिनाकिधतश्च' इति मन्यतेरुप्रत्ययः, धकारश्चान्तादेशः, तत्र च उरित्यनुवर्तते । 'जसादिषु वा वचनं छन्दसि प्राङ्कौ चङयुपधायाः' इति नाभावाभावः । मधुशब्देन चाज्यमुच्यते, 'तेजसैवैनमनक्ति '* इति ब्राह्मणदर्शनात् । 'तेनो वा आज्यम् + इति ॥ उर्ध्वायं बर्हिरनूच्छ्यति-ओषधे वायस्वैनमिति ॥ हे ओषधे बहिरेनं यूपार्थ वृक्षं त्रायस्व रक्ष यागसाधनत्वापादनेन वृक्षत्वान्मोचयित्वा उत्तमां गतिं गमय ॥ 'स्वधितिना तिर्यञ्चं प्रहरति-स्वधिते मैनं हिंसीरिति ॥ हे *सं. ६-३-३. सं. ६-३.४. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy