SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 182 तत्तिरीयसंहिता का. १. प्र. २. ममद्रावुदु त्यं जातवेदसं देवं वैहन्ति केतवः । दृशे विश्वाय सू यम् । उस्रावेतै धूषाहावनुश्रू असूर्यम् । अदधात् । सोम॑म्। अद्रौ । 'उदिति । छ । त्यम् । जातवेदसमिति जात-वेदसम् । दे॒वम् । वहन्ति । केतवः। दृशे । विश्वा॑य । सूर्यम् । उस्रौ। एति । इतम् । धूर्जाहाविति धूः-साहौ । लतारूपमात्मानं अद्रावदधात् इत्येव । त्वमेव यथैतत्सर्वमकरोः तथा वाससा आत्मानं वेष्टयामीति ॥ 'सौर्यर्चा कृष्णाजिनं पुरस्तात्प्रत्यानह्यत्यूर्ध्वग्रीवम्-उदुत्यमिति गायत्र्या ॥ त्यं तं* जातवेदसं जातानां वेदितारम् । ' गतिकारकयोरपि ' इत्यसुन्प्रत्ययः । जातप्रज्ञानं वा सूर्य देवं देवनादिगुणयुक्तं उद्वहन्ति उर्ध्वं वहन्ति केतवो रश्मयः दृशे द्रष्टुम् । 'दृशे विख्ये च' इति निपात्यते । विश्वाय विश्वार्थं विश्वं लोको यथा एनं पश्येत् तदनुरूपमुबहन्ति । स्मैभावाभावश्छान्दसः । क्रियमाणेन का सङ्गतिः ? उच्यते-एतस्य कर्मणस्सामर्थ्या देतदेवं भवतीति ॥ सोमवाहनावानीयमानौ प्रतिमन्त्रयते--उस्त्राविति विराजैकपदया यजुरन्तया ॥ हे उस्रो बलीवौ एतमागच्छतं धूर्षाहौ *ख. उ अत्यन्तम्. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy