SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 170 'तैत्तिरीयसंहिता का. १. प्र. २. कविक्रतुमचामि सत्यसवस५ र नधामभि प्रियम्मतिमूर्ध्वा यस्याऊण्योः । कविक्रतुमिति कवि-ऋतुम् । अचीमि। सत्यसवसमिति सत्य-सबसम् । रत्नधामिति रत्नधाम् । अभीति। प्रियम् । मतिम्। ऊर्ध्वा । यस्य । 'अतिछन्दा वै सर्वाणि छन्दांसि '* इति ब्राह्मणम् । अभित्यं देवं सवितारं सर्वस्य प्रेरयितारं ऊण्योस्सर्वस्यावित्र्योः द्यावाप्टथिव्योः । अवतेरौणादिके निप्रत्यये — ज्वरत्वर' इत्यादिना उठि छान्दसंणत्वम् , 'उदात्तस्वरितयोः' इत्योकारस्वर्य ते, 'उदात्तयणः' इति व्यत्ययेन प्रवर्तते । कविक्रतुं कवीनां मेधाविनामिव क्रतुः कर्म यस्य तादृशं, कमनीयकर्माणं वा । सत्यसवसं, सत्यानुहं सत्यप्रेरणं वा । रत्नधां रत्नानां रमणीयानां धनानां धारयितारं, रत्नानि धारयन्तं वा । ' आतो मनिन् ' इति विच् । अभिप्रियं प्रियमभि प्रियं लक्षीकृत्य सर्वस्य प्रियमुत्पादयामीति रत्नानि धारयन्तम् । यहा-आभिमुख्येन सर्वस्य प्रियम् ; असमस्त एव धात्वर्थं विशिनष्टि । मतिं सवैमन्तव्यं, सर्वस्य वा ज्ञातारम् । ' मन्त्र वृषः' इति क्तिन उदात्तत्वम् । ईदृशं देवमभ्यर्चामि आभिमुख्येन पूजयामि । पादादित्वान्न निहन्यते । पुनश्च देवोपि विशेष्यते-यस्य देवस्यामतिरमनशीला व्यापनशीला. भाः दीप्तिः उर्ध्वा उत्कृष्टा अदिद्युतत् द्योतयति विश्वं तमभ्यर्चामि । ‘णौ चङयुपधाया द्वस्वः ', 'द्युतिस्वाप्योत्सन्प्रसारणम् ' । अम *सं. ६.१-९. 'कि-तारं दातारं वा. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy