SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्तिरीयसंहिता [का.१. प्र.१ 'देवो वस्सविता प्रार्पयतु श्रेष्ठतमाय कर्मण वेति ॥ 'उभा वामिन्द्राग्नी'* इत्यतः प्रागितः प्रभृति ये मन्त्रास्तेषां प्रजापतिः काण्डर्षिः । अत्र केचित् युष्मच्छब्दद्वयावे यजुषी आहुः । तदानी छेदने द्वयोस्समुच्चयः । अपरे तु द्वितीयेन सन्नमनादि कुर्वन्ति । मन्त्रार्थस्तु-इडन्नं सर्वैरेषणीयत्वात् । इह तु सान्नाय्यलक्षणं गृह्यते । उ• रसः बलप्राण्योरुद्दीपकः । इषु इच्छायाम्, उर्ज बलप्राणनयोः, आभ्यां कर्मणि करणे च सम्पदादिलक्षणस्त्रियां विप्प्रत्ययः, उभयत्र तादर्थं चतुर्थी, 'सावेकाचः' इति विभक्तेरुदात्तत्वम् । हे शाखे इडर्थं त्वां छिननि । ऊर्गर्थं त्वां छिनद्मि । एवं योग्यक्रियां सम्पाद्य अध्याहारेण व्याख्येयम् । प्रयोगकाले तु तदर्थस्मृतिमात्रमेव । उहप्रवरनामधेयेषु श्रुतपदस्थाने योग्यपदान्तरप्रयोगो युज्यत एव ॥ 'वत्सानपाकरोति-वायवस्थेति ॥ केचित् आख्यातावृत्या द्वे यजुषी आचक्षते । वायवः गन्तारः । वातेर्गतिकर्मणः ‘कुवापाजि' इत्युण्प्रत्ययः । उपायवः उपगन्तारः । उपपूर्वादिणः 'छन्दसीणः' इत्युण्प्रत्ययः, उभयत्र प्रत्ययस्वरेणान्तोदात्तत्वम्, उत्तरत्र गतिसमासे कदुत्तरपदप्रकृतिस्वरत्वम् । स्थति अस्तेः पञ्चमलकाररूपम् । हे वत्साः मातृसकाशाद्गन्तारो भवत, पुनर्दोहकाले उपगन्तारो भवतेति । वायुशब्देनैषामभिधानं वावधिष्ठातृकत्वमेषां प्रदयितुम् । 'वायुर्वा अन्तरिक्षस्याध्यक्षाः इति ब्राह्मणम् ॥ गोचराय गाः प्रस्थापयति-देवो व इत्यादिभिस्तिसृभिः ऋग्भिः। तत्र प्रथमया सवितारमभ्यर्थयते । इयं च द्विपदा विरा *तै. सं. १-१-१४, ति-बा-३-२-१. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy