SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालिकाचार्यकथा। कनिष्ठिकानखं पूर्ण, चूर्णयोगस्य कस्यचित् । आक्षेपात् तत्र चिक्षेपााक्षेप्यशक्तिस्तदा गुरुः ॥६४॥ विध्यातेऽत्र ययावग्रे, राज्ञः प्रोवाच यत् सखे ।। विमज्य हेम गृहीत, यात्रासंवाहहेतवे ॥६५॥ तथेत्यादेशमाधाय,. तेऽकुर्वन् पर्व सर्वतः । भास्थानिकं गजाधादिसैन्यपूजनपूर्वकम् ॥६६॥ पश्चाल-लाटराष्ट्रेशभूपान् जित्वाऽय सर्वतः । शका मालवसन्धि ते, प्रापुराकान्तविद्विषः ॥६७॥ श्रुत्वाऽपि बलमागच्छद्, विद्यासामर्थ्यगर्वितः । गर्दभिल्लनरेन्द्रो न, पुरीदुर्गमसज्जयत् ॥६॥ अयाप शाखिसैन्यं च, विशालातलमेदिनीम् । पतसैन्यवत् सर्वप्राणिवर्गभयङ्करम् ॥६९॥ मध्यस्थो भूपतिः सोऽथ, गर्दभीविद्यया बले । नादयन्मादरीतिस्थः, सैन्यं सज्जयति स्म न ॥७॥ कपिशीर्षेषु नो ढिम्बा, कोट्टकोणेषु न ध्रसाः । विद्याधरीषु नो काण्डपूरणं चूरणं द्विषाम् ॥७१॥ न वा भटकपाटानि, पूःमतोलीष्वसज्जयत् । इति चारैः परिझाय, मुह पं जगौ गुरुः ॥७२॥ अनावृतं समीक्ष्येदं, दुर्ग मा भूरनुधमः । यदष्टमी-चतुर्दश्योरर्चयत्येष गर्दभीम् ॥७३॥ अष्टोत्तरसहस्रं च, जपत्येकायमानसः । शब्दं करोति जापान्ते, विद्या सा रासभीनिभम् ॥७४॥ तं वृत्कारस्वरं घोरं, द्विपदो वा चतुष्पदः । यः शृणोति स वक्त्रण, फेनं मुश्चन् विपद्यते ॥७५।। अर्धत्तीयगव्यूतमध्ये स्थेयं न केनचित् । । आवासान् विरलान् ! दत्वा स्थातव्यं सबलै पैः ॥७६।। इत्याकर्ण्य कृते तत्र, देशे कालकसद्गुरुः । सुभटानां शतं साष्टं, मार्थयच्छब्दवेधिनाम् ॥७॥ स्थापिताः स्वसमीपे ते, लब्धलक्षाः मुशिक्षिताः । स्वरकाले मुखं तस्या बभ्रुर्बाणैनिषङ्गवत् ॥७॥ सा मूर्ध्नि गर्दभिल्लस्य, कृत्वा विष्मत्रमीर्ण्यया । हत्वा च पादघातेन, रोषेणान्तर्दधे खरी ॥७९॥ अबकोऽयमिति ख्यापयित्वा तेषां पुरो गुरुः । समग्रसैन्यमानीय, मानी तं दुर्गमाविशत् ॥८॥ For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy