SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३८ [१७] श्रीप्रभा चन्द्राचार्यविरचितं प्रभावकचरितान्तर्गतं कालकचरितम् ॥ [ रचनासंवत् १३३४ ] श्री सीमन्धरतीर्थेश विदितोऽनणुतो गुणात् । कुतश्चिदपि सोऽव्याद् वः, कालकसूरिकुञ्जरः ||१| प्राच्यैर्बहुश्रुतैर्वृत्तं यस्य पर्युषणाश्रयम् । आहतं कीर्त्यते किं न शकटी शकटानुगा ॥२॥ श्रीधरावासमित्यस्ति, नगरं न गरो जयी । द्विजिहास्य समुद्गीर्णो, यत्र साधुवचोऽमृतैः ||३|| आशाकम्वावलम्वाढ्या, महाबळभरोच्छ्रिता । कीर्त्तिपताकका यस्याक्रान्तव्योमा गुणाश्रया ||४|| युग्मम् ॥ श्रीवैरिसिंह इत्यस्ति, राजा विक्रमराजितः । यत्मतापो रिपुत्रीणां पत्रवल्लीरशोषयत् ||५|| तस्य श्रीशेषकान्तेव, कान्ताऽस्ति सुरसुन्दरी । उत्पत्तिभूमिर्भद्रस्य, महाभोगविराजिनः ||६|| जयन्त इव शक्रस्य शशाङ्क इव वारिधेः । कालको कालकोदण्डखण्डितारिमृतोऽभवत् ॥७॥ सुता सरस्वती नाम्ना, ब्रह्मभूर्विश्वपावना | 'यदागमात् समुद्रोऽपि, गुरुः सर्वाश्रयोऽभवत् ॥८॥ कालकोऽश्वकला के ळिकळनायान्यदा बहिः । पुरस्य भुवमायासीदनायासी हयश्रमे ||९|| तत्र धौरितकात् प्लुत्या, वल्गितेनापि वाहयन् । उत्तेजिताल्लसद्गत्या, हयानुत्तेरितादपि ॥ १० ॥ श्रान्तस्तिमितगन्धर्वी, गन्धर्व इव रूपतः । अशृणोन्मसृणोदारं, स्वरमाराममध्यतः ॥ ११ ॥ अथाह मन्त्रिणं राजपुत्रः कीदृक् स्वरो ह्यसौ । मेघगर्जितगम्भीरः कस्य वा ज्ञायतां ततः ||१२|| For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy