________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पर्यायो भवति द्विधा ज्ञातव्यस्तद्यथा-गृहे गृहविषयः जन्मत आरभ्येत्यर्थः / तथा श्रामण्ये श्रामण्यविषयः श्रमणभावप्रतिपत्तेरारम्येति भावः / इयमत्र भावना-द्विविधः पर्यायस्तद्यथा-जन्मपर्यायो दीक्षापर्यायश्च / इगुतीसा वीसा य जहण्णति यथासंख्येन योजना जन्मपर्यायो जघन्यत एकोनत्रिंशद्वर्षाणि विज्ञेयो दीक्षापर्यायो विंशतिवर्षाणि, उत्कर्षत उभयत्रापि देशोना पूर्वकोटी / उक्तं च-' परियातो दुविहो-जन्मपरियातो दिक्खपरियातो / जन्मपरियातो जहण्णेणं इगुणतीसं वासा / उकोसेणं देरणा पुन्वकोडी दिक्खापरियातो जहण्णेणं वीस वासो उक्कोसेणं देसूणा पुनकोडीति // गतं पर्यायद्वारम् // सम्प्रति सूत्रार्थमाह द्वारम्नवमस्स तईयवत्यू जहराणउकोसऊणगा दसयो। सुत्तत्थाणि अभिग्गह दव्वादि ततोरयणमादी॥३५॥ जघन्यतः सूत्रमर्थश्च यावत् नवमस्य पूर्वस्य तृतीयमाचारनामकं वस्तु उत्कर्षतो यावदूनानि किञ्चिन्वयूनानि दशपूर्वाणि, परिपूर्णदशपूर्वघरादीनां परिहारतपोदाना योगात् / तेषां हि वाचनादिपञ्चविधस्वाध्यायविधानमेव सर्वोत्तमं कर्मनिर्जरास्थानं / गतं सूत्रार्थद्वारमिदानीमभिग्रहद्वारमाह-अभिग्रह-द्रव्यादि अभिग्रहा-द्रव्यादिकास्तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च / तत्र द्रव्याभिग्रहा अद्य मया कुल्माषा ग्राह्या यदि वा तक्रादिकमेकं द्रव्यमिति / क्षेत्रतोऽभिग्रहा देहलीमाक्रम्येत्यादिकाः / कालतोऽभिग्रहास्तृतीयस्यां पौरुष्यां / भावतोऽभिग्रहा यदि हसन्ती रुदन्ती वा भिक्षां ददातीत्येवमादिकाः। गतमभिग्रहद्वारमधुना तपोद्वारमाह तपो रयणमादी तपो रत्नादिकं, पदैकदेशै पदसमुदायोपचारात् रत्नावल्यादिकं आदिशब्दात्कनकालिमुक्तावलिसिंहविक्रीडितादि तपः परिग्रहः / एवं गीतार्थत्वयथोक्तपर्यायसूत्रार्थाभिग्रहकर्कशतपः कर्मलक्षण For Private and Personal Use Only