SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकाऽनंतरः। // 2 // * तवतियं छेयतियं वा, मूलतियं अणवठ्ठावणतियं च॥चरमंच एकसरयं, पढमंतववजियं बिइयं // 265 // तपत्रिकं, छेदत्रिकं मूलत्रिक, अनवस्थाप्यत्रिकं चरमं पारांचितं. तदेकसरं एकवारं दीयते, इदमुक्तं भवति, असंचये उद्घातं मासादिकमापन्नस्य प्रथमवेलाया मुद्घातो मासो दीयते, द्वितीयवेलायामुद्धातचातुमासकं, तृतीयवेलायामुद्घातपण्मासिकं, चतुर्थवेलायां छेदः पंचमवेलायामपि छेदः, षष्ठवेलायामपि छेदः, सर्वत्र त्रीणि त्रीणि दिनानि छेदः सप्तमवेलायां मूलमष्टमवेलायां मूलं, नवमवेलायामपि मूलं, दशम वेलाया मनवस्थाप्य मेकादश वेलाया मनवस्थाप्यं, द्वादश वेलायामप्य नवस्थाप्यं त्रयोदशवेलायां पारश्चितमिति / एवमनुदघातितेऽपि असंचये त्रयोदशपदानि प्रस्थापनायां वक्तव्यानि / " पढमं ' ति प्रथममसंचयं पदं गतम् // द्वितीयं संचयपदं तववञ्जियं' ति मासचतुर्मासलक्षणाभ्यामादिमाभ्यां वर्जितमेकादशपदं भवति / एतदेव व्याख्यानयतिबिइयं संचइयं खलु तं श्राइपएहिं दोहिं रहियं तु / छम्मासतवादीयं एक्कारसपएहिं चरमेहिं // 266 / / द्वितीयं खलु संचयितमुच्यते, / तत् द्वाभ्यामादिपदाभ्यां रहितं पण्मासतपादिकं पण्मासतपःप्रभृतिकं चरमैरेकादशपदेद्रष्टव्यम् / तत्रापीयं भावना-संचयितप्रायश्चित्तस्थानमापनस्य प्रथममुद्घातं पाण्मासादिकं तपो दीयते / द्वितीयवेलायां च्छेदः, तृतीयवेलायां च्छेदः, चतुर्थवेलायामपि च्छेदः, पञ्चमवेलायां मूलं, षष्ठवेलायां मूलं, सप्तमवेलायामपि मूलं, अष्टमवेलायामनवस्थाप्यं, नवमवेलायामनवस्थाप्य, दशमवेलायामनवस्थाप्यं, एकादशवेलायां पाराश्चितमिति, / एतदेवाह // // 2 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy