SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsuri Gyanmandie आलोयणाविहाणं तं चेव दब्बखेत्तकाले य। भावे सुद्धमसुद्धे स सणिद्धे सातिरेगाई // 341 // आलोचनाविधानं तदेवात्रापि सविस्तरमभिधातव्यम् / यदुक्तं प्रथमसूत्रे दव्वादि चउरभिग्रहेत्यादिना ग्रन्थेन ततः प्रागुक्तदोषवर्जिताः आलोचना प्रशस्ते दूव्ये क्षेत्रे काले भावे च प्रागुक्तस्वरूपे दातव्या, नाप्रशस्ते / इह प्रतिसेवितं द्विधा भवति-शुद्धमशुद्धं च / तत्र यत् शुद्धेन भावेन प्रतिसेवितं यतनया च तत् शुद्धं / तच्च शुद्धत्वादेव न प्रायाश्चित्तविषयः। यत्वशुद्धेन भावेन प्रतिसेवितमयतनया च तदशुद्धं / तच्च प्रायश्चित्तविषयोऽशुद्धत्वात् / तस्मिश्चाशुद्धे प्रायश्चित्तानि केवलानि मासिकादीनि सातिरेकाणि च तत्र सातिरेकाणि ससणिडे इति सस्निग्धे हस्ते मात्रके वा सति तेन भिक्षाग्रहणत उपलक्षणमेतत् / तेन बीजकायसंघटनादिनापि सातिरकाणि द्रष्टव्यानि / तत्र सातिरेकातामेव भावयति--- पणगेणाहियो मासो, दसपक्खेणं च वीसभिन्नणं / संजोगा कायव्वा, गुरुलहुमीसेहि य अणेगा // 343 // इह मूलत पारम्यामूनि सर्वाण्यप्यालोचनासूत्राणि किल सर्वसंख्यया दश भवन्ति / तत्राद्यानि चत्वारि सूत्राणि साचात् सूत्रत एव परिपूर्णान्युक्तानि / शेषाणि तु षद् सूत्राण्याभ्यां द्वाभ्यां सूत्राभ्यामर्थतः सूचितानि तानि चामूनि सातिरेकसूत्रं 1 बहुसातिरेकमूत्रं 2 सातिरेकसंयोगसूत्रं 3 बहुसातिरेकसंयोगसूत्रं 4 नवमं सकलस्यसातिरेकस्य च संयोगसूत्रं 5 दशमं बहुशः शब्दविशिष्टस्य सकलस्य बहुशः शब्दविशिष्टस्य सातिरेकस्य च संयोगसूत्रं 6 / तत्र पश्चमं सातिरेकसूत्रं पश्चसूत्रात्मकं / तच्चैवमुच्चारणीयम्-'जे भिक्खू सातिरेगमासियं परिहारट्ठाणं पडिसेवित्ता आलोएजा अपलिउंचिय आलोएमाणस्स साति For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy