________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir तृतीयो विभाग श्री व्यवहारसूत्रस्य। पीठिका नंतर // 117 // दग्नि निष्काशयतीत्यादि / अथवा परेषां सौभाग्यादिनिमित्तं यत् स्नपनादि क्रियते / एतत् कौतुकं / उक्तं च-'सोहग्गादिनिमित्तं परेसि ण्हवणादि कोउगं भणियमिति,' एवंभूतानि कौतुकानि तथा भूतिकर्मनाम यज्ज्वरितादीनामभिमन्त्रितेन चारेण रक्षाकरणं, 'जरियादिभूतिदाणं भूतीकम्मविणिदिट्ठमिति' वचनात् प्रश्नाप्रश्नं नाम यत् स्वमविद्यादिभिः शिष्टस्यान्येभ्यः कथनम् / उक्तं चसुविणगविजा कहियं पायं(इं)खणि घंटियादि कहियं वा / जं सीसइ अप्लेसिं पसिणापसिणं हवइ एयं // ___ निमित्तमतीतादिभावकथनं। तथा आजीबो नाम आजीवि(व)कः / स च जात्यादिभेदतः सप्तप्रकाराः तान् , तथा कन्को नाम प्रसत्यादिषु रोगेषु क्षारपातनमथवात्मनः शरीरस्य देशतः सर्वतो वा लोध्रादिभिरुद्वर्तनं, तथा कुरु(र)का देशतः सर्वतो वा शरीरस्य प्रक्षालनं, लक्षणं पुरुषलक्षणादि, तथा ससाधना विद्या असाधनो मन्त्रः / यदि वा यस्याधिष्ठात्री देवता सा विद्या यस्य पुरुषः समंत्रः आदिशब्दात् मूलकर्मचूर्णादिपरिग्रहः / तत्र मूल कर्म नाम पुरुषद्वेषिण्याः सत्या अपुरुषद्वेषिणी करणमपुरुष द्वेषिण्याः सत्याः पुरुषद्वेषिणीकरणं, गर्भोत्पाटनं गर्भपातनमित्यादि चूर्णयोगादयश्च प्रतीताः / एतानि य उपजीवति स चरणकुशीलः / सम्प्रत्याजीवं व्याख्यानयति-- जाति कुले गणे या कम्मे सिप्पे तवे सुए चेव। सत्तविहं श्राजीवं उवजीवति जो कुसीलो उ॥ जातिर्मातृकी, कुलं पैतृकं, गणो मनगणादिः। कर्म अनाचार्यकमाचार्योपदेशजं शिल्पं, तपः श्रुते प्रतीते / एवं सप्त For Private and Personal Use Only