SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsur Gyanmandie श्री ग्यव हारसूत्रस्य पीठिकानंतरः। // 116 // चत्वारो गुरवः / यत्र चत्वारो गुरुकास्तत्र षण्मासान् गुरून् जानीहि / यत्र पुनः पण्मासाः तत्र ज्ञातव्यः च्छेदः, च्छेदस्थाने च || तृतीयो मूलं, / तद्यथा-ययुत्सवाभावे कदाचित्कथयतिततश्चत्वारो लघुका मासा अथाभीक्ष्णं कथयति / ततश्चत्वारो गुरुकाः, विभाग। अथोत्सवे कदाचित् ब्रूते ततश्चत्वारो गुरुकाः, / अभीक्ष्णकथने षण्मासा गुरवः, चतुरोमासान् यावत्कदाचित् कथने चत्वारोगुरुकाः पण्मासान् यावत्कदाचितकथने षण्मासा गुरवः वर्षयावत् कदाचित् कथनेच्छेद , चतुरोमासान् यावत् अभीक्षण करने षण्मासागुरवः षण्मासान् यावत् अभीक्ष्णकथने च्छेदः / वर्ष यावदभीक्ष्णकथने मूलं / अत्रोत्सवानुत्सवविशेषरहिततया सामान्यतोऽभिधानं उक्तमोधेन प्रायश्चित्तम्, अधुना विभागत उच्यते / चतुरो मासान् यावत्कदाचित् उत्सवाभावे प्ररूपणायां चत्वारो लघुमासाः, षण्मासान् यावत् चत्वारो गुरवः, वर्ष यावत् षण्मासा गुरवः / तथा चतुरो मासान् यावदुत्सवाभावे अभीक्ष्णप्ररूपणायां चत्वारो गुरुकाः। षण्मासान् यावदुत्सववर्जमभीक्ष्णप्ररूपणायां षण्मासा गुरवः / वर्ष यावदेवं प्ररूपणायां च्छेदः, / चतुरो मासान् यावदुत्सवेकदाचित्प्ररूपणायां चत्वारो मासा गुरवः / पण्मासान् यावदेवं प्ररूपणायां षण्मासा गुरवः, वर्षे यावत्तथा प्ररूपणायां च्छेदः। तथा चतुरो मासान यावदुत्सवे अभीक्ष्णं प्राणायां चतुर्गुरुकच्छेदः षण्मासान् यावदेवं प्ररूपणायां पटगुरुकः / वर्ष यावदेवं प्ररूपणायां मूलभिति, एतदेव सामान्यतः प्राह-पासत्थेत्यादि, पार्श्वस्थे यत्र स्थाने यद् भणितं प्रायश्चित्तं तस्मिन् स्थाने यथाच्छन्दे विवहितं विशेषेण वर्द्धितं जानीहि / तच्च तथैवानन्तरमुपदर्शितं, कस्माद्विवार्धितं जानीहीति चेत् उच्यते-प्रसिद्धसेवनात् कुप्ररूपणाया बहुदोषत्वादिहपार्श्वस्थत्वं त्रयाणामपि सम्भवति / तद्यथा भिक्षार्गणावच्छेदिन प्राचार्यस्य च, यथाच्छन्दत्वं पुनर्भिक्षारेव ततः पार्श्वस्थविषयं सूत्रं त्रिसूत्रात्मकं यथाच्छन्दविषयं त्वेकस्वरूपमिति // 116 // For Private and Personal use only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy