SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दर्शयति / दर्शयंश्च स्वयं साधु श्रावकं वा पश्यति, तस्य संदेशं कथयति यथा समापिता मया प्रतिमा, ततोऽहमागत इति तत्राचार्या राज्ञो निवेदयन्ति, यथा-अमुको महातपस्वी समाप्ततपः कर्माभूदिति स महता सत्कारेण गच्छे प्रवेशनीय इति / ततः स राजा तस्य सत्कारं कारयितव्यस्तदभावेऽधिकृतस्य ग्रामस्य नगरस्य वा नायकस्तदभावे समृद्धः श्रावकवर्ग स्तदभावे साधुसाध्वी प्रभृतिकः सङ्घो यथाशक्ति सत्कारं करोति, | सत्कारो मानस्तस्योपरि चन्द्रोदय धारणं नान्दी तूर्यास्फालनं सुगन्धवासप्रक्षेपणमित्यादि / एवं रूपेण सत्कारेण गच्छं प्रवेशयेत् / सत्कारेण प्रवेशनायामिमे गुणा: उद्भावणापवयणे, सद्धाजणणं तहेव बहुमाणो। उहावणा कुतित्थे जीयं तह तित्थवड्डीय / / प्रवेशसत्कारेण प्रवचनस्य उद्धाजना प्राबल्येन प्रकाशनं भवति, / तथा अन्येषां बहूनां साधूनां श्रद्धाजननं यथा वयमप्येवं कुर्मो येन महती शासनस्य प्रभावना भवति, / तथा श्रावकश्राविकाणामन्येषां च बहुमानमुपजायते शासनस्योपरि यथा अहो महाप्रतापि पारमेश्वरं शासनं, यत्रेदशा महातपस्विन इति; तथा कुतीर्थे जातावेकवचनं / कुतीर्थानामपभ्राजना हीलना | तत्र ईदृशां महासत्वानां तपस्विनामभावात् / तथा जीतमेतत्कल्प एष समाप्तप्रतिमानुष्ठानः सत्करणीय इति, तथा तीर्थ वृद्धिश्च / एवं हि प्रवचनस्यातिशयमुदीक्षमाणा बहवः संसाराद्विरज्यन्ते विरक्ताश्च परित्यक्तसङ्गाः प्रव्रज्या प्रतिपद्यन्ते / ततो भवति तीर्थप्रवृद्धिरिति / तदेवं परिकर्मणाभिधानं प्रतिमाप्रतिपत्तिः प्रवेशसत्कारश्च भणितः / साम्प्रतमधिकृतसूत्रं यत्र योगमर्हति तद्विवक्षुरिदमाह For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy