________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्रष्टव्यः / तदेवं साधूनां निस्तारणविधिरुक्तः / इदानीं साध्वीनां तमाहपवित्तिणि भिसेयपत्ता भिक्खुणि खुड्डा तहेव थेरी योगहणं तासिं इणमो संजोगगमंतु वोच्छामि // 98 // प्रवर्तिनीसमस्तसाध्वीनां नायिका आचार्यस्थानीया, अभिषेका प्रवर्तिनीपदयोग्या, भिक्षुकी चुचिका स्थविरा च प्रतीता / एतासां पश्चानामपिग्रहणमिदं वक्ष्यमाणं संयोगगमं / संयोगतोऽनेकप्रकारं वक्ष्यामि प्रतिज्ञातमेव निर्वाहयतितरुणी निप्फन्नपरिवारा सलद्धिया जाय होति अप्भासे। अभिसेयाणं चउरो सेसाणंपंच चेव गमा॥९९॥ ____ यदि शक्तिरस्ति ततः पश्चापि प्रवर्तिन्वादयो युगपनिस्तारणीया अशक्तौ चतस्रः तत्राप्यशक्तौ तिस्रस्तदभावे द्वे | प्रवर्तिन्यभिषेके / तत्राप्यशक्ती प्रवर्तिन्येका / तत्रापि यद्येका प्रवर्तिनी स्थविरा भवति अपरा च तरुणी / ततस्तरुणी स्थविरयोर्मध्ये तरुणी निस्तारणीया / द्वयोस्तरुण्योः स्थविरयोर्वा मध्ये निष्पन्ना, द्वयोनिष्पन्नयोरनिष्पन्नयोर्वा मध्ये सपरिवारा द्वयोः सपरिवारयोर परिवारयोर्वा मध्ये लब्धियुक्ता द्वयोर्लन्धियुक्तयोरलब्धिकयोर्वा या भवत्यभ्यासे सा निस्तारणीया एते पंच गमाःप्रवर्त्तिन्यां, अभिषेकायां चत्वारो गमाः, तस्यानिष्पन्नतया निष्पन्नानिष्पन्नगमासंभवात् शेषाणां भिक्षुकी क्षुल्लिका स्थविराणां पंचगमा भवंति तेच पंचापि गमाः प्रवर्त्तिन्या इव भावनीयाः। तदेवं साधूनां साध्वीनां च प्रत्येकं निस्तारणविधिरुक्तः साम्प्रतमुभयेषां संयोगत आहपायरिय गणणि वसभे, कमसोग्गहणं तहेव अभिसेया।सेप्ताण पुवमित्थी मीसगकरणे कमोएस।१०० For Private and Personal Use Only