________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie पूर्वस्मिन्कल्पनाम्नि अध्ययने भिक्षुरप्रमत्तो भदन्तैः परमकन्याणयोगिभिरुपवर्णितः, ततः कथं परिहारतपः प्रायश्चित्तापत्तिर्यतः पारिहारिका भवेयुः। अपि च एको द्वौ वा पारिहारतप आपद्येयातामेकस्य एकाकिदोषाणां द्वयोरसमाप्तकल्पदोषाणां संभवात् / ये च बहवस्ते च समाप्तकल्पकल्पत्वात् परस्पररक्षणपरायणाः कथं पारिहारिकत्वं समापना इति, अत्राचार्य आहचोयग बहुउप्पत्ती जोहाव जहा तहा समणजोहा / दव्वच्छलणे जोहा, भावच्छलणे समणजोहा॥ हे चोदक परीपहाणामसहनेन श्रोत्रेन्द्रियादिविषयेष्विष्टानिष्टेषु रागद्वेषाभिगमनतो वा परिहारतपः प्रायश्चित्तस्थानापच्या बहूनां पारिहारिकाणामुत्पत्तिन विरुद्धा / अथवा यथा योधाः सन्नद्धबद्धकवचा अपि रणप्रविष्टाः प्रति पन्धिपुरुषैस्तथाविधं कमप्यवसरमवाप्य देशतः सर्वतो वा च्छन्यन्ते तथा श्रमणयोधा अपि मूलगुणोत्तरगुणेष्वत्यन्तमप्रमत्ततया यतमाना अपि छलनामाप्नुवन्ति / सा च च्छलणा द्विधा-दूव्यतो भावतश्च / द्रव्यत छलना खङ्गादिभिर्भावतः परीपहोपसर्गायैः। तत्र द्रव्यच्छलने द्रव्यत छलन विषया योधा रणे प्रविष्टा भटाः / भावच्छलने भावच्छलनविषया श्रमणयोधाः / सम्प्रति यदुक्तं यथा योधास्तथा श्रमणयोधा इति तत् व्याख्यानयति-- आवरिया विरणमुहे जहा च्छलिजंति अप्पमत्ता वि / च्छलणावि होइ दुविहा जीयंतकरी य इयरी य॥ यथा योधा आवृता अपि सनद्धसमाहा अपि अप्रमत्ता अपि च रणमुखे प्रविष्टाः प्रतिभटै'छन्यन्ते / सा च च्छलना For Private and Personal Use Only