SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir बा.रा.म. टी.आ. ॥४३॥ स०१६ नीहारेति । लोको जनः नीहारेण हिमेन परुषः परुषत्वक, सर्वत्र भवतीति शेषः । स्वभावोक्तिरलङ्कारः । “स्वभावोक्तिः स्वभावस्य जात्यादिस्थस्य वर्ण नम्” इति लक्षणात्॥५॥काले आग्रयणकर्मानुष्ठानकाले।आग्रयणं नाम कश्चिद्धविर्यज्ञो नूतनधान्यभोजनस्यादावनुष्ठेयः। तदुक्तमापस्तम्बेन "नानिष्टा । ग्रयणेनाहिताग्निर्नवस्य धान्यस्याश्रीयादवीही यवानां श्यामाकानामग्रे पाकस्य यजेत" इति। आग्रयणरूपपूजाभिः पितृदेवताअभ्यर्च्य कृताग्रयणका नतु कृताग्रयणप्रतिनिधय इत्यर्थः ॥ ६॥ प्राज्यकामा इति । प्राज्यकामाः बहुलकामोद्रेकाः। "प्राज्यमददं बहुलम्" इत्यमरः । जनपदाः जनपदुस्थाः।। नीहारपरुषो लोकः पृथिवी सस्यशालिनी। जलान्यनुपभोग्यानि सुभगो हव्यवाहनः ॥ ५॥ नवाग्रयणपूजामि रभ्यर्च्य पितृदेवताः। कृताग्रयणकाःकाले सन्तो विगतकल्मषाः॥६॥ प्राज्यकामा जनपदाः सम्पन्नतरगोरसाः। विचरन्ति महीपाला यात्रास्था विजिगीषवः ॥७॥ सेवमाने दृढं सूर्ये दिशमन्तकसेविताम् । विहीनतिलकेव स्त्री नोत्तरा दिक प्रकाशते ॥८॥ प्रकृत्या हिमकोशाढ्यो दूरसूर्यश्च साम्प्रतम् । यथार्थनामा सुव्यक्तं हिमवान हिम वान गिरिः ॥९॥अत्यन्तसुखसञ्चारा मध्याह्ने स्पर्शतः सुखाः। दिवसाः सुभगादित्याश्छायासलिलदुर्भगाः ॥१०॥ यात्रायां युद्धयात्रायाम् आस्था येषां ते यात्रास्थाः॥७॥ अन्तकसेवितां दक्षिणामित्यर्थः । अत्रोत्प्रेक्षालङ्कारेण दक्षिणा दिक सतिलकेव प्रकाशत इत्युत्प्रेक्षा व्यज्यते ॥८॥प्रकृत्या स्वभावेन । हिमकोशैः घनीभूतहिमैः। आधः सम्पूर्णः। साम्प्रतं दक्षिणायने । दूरसूर्यः अत एव हिमवान् अधिक हिमः । भूमाथे मतुपू । हिमवान् गिरिः यथार्थनामा भवति । सुव्यक्तमित्युत्प्रेक्षाव्यञ्जकं निरुक्तिश्वालङ्कारः । “निरुक्तियोगतो नानामन्वर्थत्वप्रकल्प नम्" इति लक्षणात् ॥९॥ मध्याह्ने स्पर्शतःउष्णस्पर्शतः। सुखाः सुखकराः अतएव तदानीम् अत्यन्तसुखसञ्चाराः। सुभगादित्याः दर्शनयोग्यादित्याः। योजना । यद्वा यः हेमन्तकालः ते प्रियः येन हेमन्तेन संवत्सरः शुभस्सन अलंकृत वाभाति अयं कालस्सम्माप्त इति योजना ॥ ४ ॥ हेमन्तधर्मान्वर्णयतिनीहारेति । लोको जनः नीहारपरुषः नीहारेण हिमेन परुषः परुपस्पर्शशरीर इत्यर्थः । जलान्यननुपभोग्यानि शैत्यातिशयात्स्नानाद्यर्थमशक्यानि । सुभगःK इष्टः ॥५॥ आप्रयणं नाम कश्चिद्धविर्यज्ञः नवधान्यभोजनस्वादावनुष्ठेयः । तेनाप्रयणेन देवान् सन्तर्प। पितृकर्मणा पितॄन सन्तर्प्य सन्तो विगतकल्मषा| भवन्तीत्यन्वयः । कृतामयणका इत्यनुवादः । काले शरत्काले ॥ ६ ॥ माज्या प्रभूतः कामो येषां ते तथोक्ताः, सर्वसस्यादिसम्पन्नत्वादिति भावः । सम्पन्नतरगोरसाः बहुलतरगोक्षीराः जनपदा भवन्तीति शेषः ॥ ७॥अन्तकसेविता दिशं दक्षिणा दिशम् ॥ ८॥ प्रकृत्या स्वभावेन हिमकोशैः घनीभूतैः हिम समूहरादयः समृद्धः । दूरे सूर्यो यस्य स तथोक्तः ॥९॥ अत्यन्तं मुखं सवारो येषां ते तथोक्ताः । स्पर्शतः सुखाः सुखस्पर्शातपा इति यावत् । सुभगावित्याः For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy