________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मया स्थातव्यमित्येवंविधधर्मज्ञेन त्वया पुत्रेण पुन्नाम्नो नरकात्रायत इति पुत्रः । ततो मदभिमतासिद्धिरेव स्वस्य निरय इत्यभिमेने, मदभिमतकरणेन तस्य निरयनिस्तारकेण त्वयेत्यर्थः । धर्मात्मा स्वयं यावज्जीवं मदभीष्टमेव कृत्वा स्वचरमकालेऽपि मदभिमतकरणाय त्वां स्थापितवान् पानीयशाला प्रवर्तकवत् । मम पिता न संवृत्तः किंतु त्वमेव त्वन्मुखेन पित्रा मम सर्वाभिलषितपरिपूरणात् अहं सर्वे कार्रष्यामीति हि त्वयोक्तमिति भावः ॥ २९ ॥ एवं लक्ष्मणमुक्त्वा तु राघवो लक्ष्मिवर्धनः । तस्मिन् देशे बहुफले न्यवसत् सुसुखं वशी ॥ ३० ॥ कञ्चित्कालं स धर्मात्मा सीतया लक्ष्मणेन च । अन्वास्यमानो न्यवसत् स्वर्गलोके यथामरः ॥ ३१ ॥ इत्यार्षे श्रीरामायणे वाल्माकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चदशः सर्गः ॥ १५ ॥
वसतस्तस्य तु सुखं राघवस्य महात्मनः । शरद्व्यपाये हेमन्त ऋतुरिष्टः प्रवर्तते ॥ १ ॥ स कदाचित्प्रभातायां शर्वर्थी रघुनन्दनः । प्रययावभिषेकार्थं रम्यां गोदावरीं नदीम् ॥ २ ॥ प्रह्नः कलशहस्तस्तं सीतया सह वीर्यवान् । पृष्ठतोऽनुव्रजन् भ्राता सौमित्रिरिदमब्रवीत् ॥ ३ ॥ अयं स कालः सम्प्राप्तः प्रियो यस्ते प्रियंवद । अलंकृत इवाभाति येन संवत्सरः शुभः ॥ ४ ॥
| एवमिति । वशी विपयचापलरहितः ॥ ३० ॥ ॥ अत्र एकत्रिंशच्छ्लोकाः ॥३१॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्य काण्डव्याख्याने पञ्चदशः सर्गः ॥ १५ ॥ अथ भाविशूर्पणखादर्शनाद्यनर्थसूचकतया हेमन्तवर्णनं प्रस्तौति-वसत इत्यादि । इष्टः तपस्विनां तपःसाधनायेष्टः । रामस्य तु खरादिराक्षसवधविजयमूलशूर्पणखागमनहेतुतयेष्टः ॥ १ ॥ स इति । प्रभातायां विरामोन्मुखायाम् ॥ २ ॥ ३ ॥ अयमिति । येन हेमन्तेन ॥४॥ अभिप्रायज्ञः । कृतज्ञः गृहनिर्माणादिकृतज्ञः । धर्मज्ञः सेवाधर्मज्ञः । नायेन पालकेन त्वया मम पिता न संवृत्तः न गतः, मदृष्टया जीवितवानित्यर्थः । पिता यथा पुत्रं पालयति तद्वत्त्वमपि मां पालयसीति भावः । त्वया नाथेनेति पाठः ॥ २९-३१ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्य काण्डव्याख्यायां पञ्चदशः सर्गः ॥ १५ ॥ अथ मुनिः शूर्पणखागमनं वक्तुं तत्कामोद्दीपकं हेमन्तं वर्णयति वसत इति । राघवस्य वसतस्ततः श्रीरामे पञ्चवटयां स्थिते सतीत्यर्थः । इष्टः कामिनीनां कामिनामिष्ट इत्यर्थः । शरव्यपाये शरत्काले गते सति हेमन्त ऋतुः " ऋत्यकः " इति सन्ध्यभावः ॥ १ ॥ अभिषेकार्थ स्नानार्थम् ॥ २ ॥ ३ ॥ येन हेमन्तेन सुपक्कसस्यादिसम्पन्नेन शुभस्सन्नयं संवत्सरः अलंकृतो यद्यपि तथापि तव अतिसुकुमारस्य प्रिय इवाभाति । किमिति
For Private And Personal Use Only