SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir पर्वसु पर्वसु समुद्रखानायागच्छति । तस्यापरे पारे आन्तरालिकतीरे दीपोऽस्ति तं मार्गध्वम् । तत्र सर्वात्मना सर्वप्रयनेन विशेषतः सीता मार्गितव्यान इत्यर्थः ॥२०-२४॥ स हीति । एवं रावणालयावगमेऽपि इतरदिक्षु वानरप्रेषणं स्थानान्तरे सीतामादाय किं न गच्छोदिति शङ्कयति बोध्यम् ॥२५-२६॥ ननु पूर्व “न जाने निलयं तस्य सर्वथा पापरक्षसः" इत्युक्तम्, संप्रति “स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः" इत्युच्यते, अतो विरुद्धमिदमित्या स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः। राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः ॥२५॥ दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी । अङ्गारकेति विख्याता छायामाकृष्य भोजनी ॥२६॥ एवं निस्संशयान् कृत्वा संशयान्नष्ट संशयाः । मृगयध्वं नरेन्द्रस्य पत्नीममिततेजप्तः ॥ २७ ॥ तमतिक्रम्य लक्ष्मीवान समुद्रे शतयोजने । गिरिः पुष्पितको नाम सिद्धचारणसेवितः ॥२८॥ चन्द्रसूर्याशुसंकाशः सागराम्बुसमावृतः । भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव ॥ २९ ॥ तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः। श्वेतं राजतमेकं च सेवते यं निशाकरः ॥३०॥ Mशङ्कय परिहरति एवमिति । एवं मदुक्तरीत्या । संशयान संशयविषयभूतान देशान् । निःसंशयान संशयाविषयीभूतान् । निश्चितसदसद्भावान् कृत्वा नष्टसंशयाः सन्तः अमिततेजसो नरेन्द्रस्य पत्नी मृगयध्वम् । यदृच्छादर्शनापरिस्फुटज्ञातमर्थ कथं निश्चयेन कथयामीति न जान इति पूर्वमुक्तम् इदानी तथाविधमप्यर्थमन्वेषणगौरवाय निश्चयेन ब्रवीमिति भावः ॥२७॥ तमतिकम्यति ।“ परावरयोगे च " इति क्त्वाप्रत्ययः । एवं पूर्वत्रापरत्र च बोध्यम् ॥ २८ ॥ २९ ॥ तस्यैकमिति । दक्षिणायन इति शेषः ॥ ३० ॥३१॥ तस्य देशस्य रावणसम्बन्धितया सामान्येनेवावगतत्वेपि सुदृढान्वेषणार्थ तं देशं तदीयत्वेन निश्चित्योक्तवान् ॥२५॥ समुद्रे अप्रमत्तैर्गन्तव्यमित्यभिप्रायेण तत्रत्यं । बाधकमाह-दक्षिणस्येति ॥ २६ ॥ एवं निस्संशयान् कृत्वा संशयान नष्टसंशयाः यथा संशयतो रावणदेशो निश्चयेनान्विष्यते एवं संशयान् संशयितान् देशान टीका-स हीति । न जाने निलयं तस्य सर्वथा पापरक्षसः ' इत्यादिना पूर्व रावणनिवासापरिज्ञान प्रकटीकृतन् इदानीमेतत्कथमुच्यते । इति चेत्, बालिवधात्पूर्वमेव राजगनिवासमुक्तं दालिवधमकृत्वैव स्वयमेव रावगं हत्वा सीतमानेश्वति, ततः स्वस्थ राज्यप्राप्ति लिवधश्च न भविष्यतीति मिया तदानी नोक्तम्, इदानीं सर्वार्थपरिपूर्णत्वादुक्तवानियविरोषः । यद्वा यादृच्छिकदर्शनापरिस्फुटपरिज्ञातमर्थ कथ निश्चयेन कथयामीति न जान इति पूर्वमुक्तवान् । इदानी वपरिस्फुटबातमप्यर्थमन्वेषणगौरवाय निश्चयेन ब्रवीमीति निश्चित्याकघवन् । द्वितीयपक्षे तस्प देशस्य रावणसम्बन्धितया सामान्येनाबगतत्वेपि सुद्धान्वेषणार्थ तं देश तदीयत्वेन निबित्योक्तवान् ॥ २१ ॥ स०- पूऑक्तप्रकारेण संशयान् संशयविषयान् समुद्रतरणच्छायामहनिवारणादीन् प्रति । निस्संशषान् निर्गतः संशषो ये तान् मया परं तीरं प्राप्यते नवा, For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy