________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वेगवदिति यावत् । बलं सैन्यम् । अग्रेसरम् अग्रचरं विधाय ॥६॥ये केचनेति । तान् समुद्देशान् ॥७॥ सहस्रशिरसमित्यादि । पूर्ववन्मध्यदेशा पेक्षया विन्ध्यस्य दक्षिणत्वव्यपदेशः ॥८॥ रामानु०-सहस्त्राशिरसमित्यादिना पूर्वभागस्थान देशानुपदिशति ॥ ८॥ ॥९॥१०॥ तत्र सर्वमेवानुपश्यतेत्यन्तेन । विन्ध्यस्य पश्चिमभागस्थास्तदक्षिणपार्श्वस्थांश्च नदीनगरदेशानुपदिशति-विदर्भानित्यादिना । पूर्वभागस्थान देशानुपदिशति नदी गोदावरीमिति ।
ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः । कपीशः कपिमुख्यानां स तेषां तानुदाहरत् ॥७॥ सहस्रशिरसं विन्ध्यं नानादुमलतायुतम् । नर्मदा च नदी दुर्गा महोरगनिषेविताम् ॥८॥ ततो गोदावरी रम्या कृष्णवेणी महानदीम् । वरदां च महाभागां महोरगनिषेविताम् ॥ ९॥ मेखलामुत्कलां चैव दशार्णनगराण्यपि । अश्ववन्ती मवन्ती च सर्वमेवानुपश्यत ॥१०॥ विदर्भानृषिकांश्चैव रम्यान्माहिषकानपि । तथा वङ्गान कलिङ्गांश्च कौशिकांश्च समन्ततः ॥ ११॥ अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम् । नदी गोदावरी चैव सर्वमेवानुपश्यत । तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान् पाण्ड्यान सकेरलान्॥१२॥ अयोमुखश्च गन्तव्यः पर्वतोधातुमण्डितः। विचित्रशिखरः श्रीमांश्चित्र पुष्पितकाननः ॥ १३॥ सचन्दनवनोद्देशो मार्गितव्यो महागिरिः॥ १४॥ ततस्तामापर्गा दिव्यां प्रसन्नसलिला शिवाम् । तत्र द्रक्ष्यथ कावेरी विहितामप्सरोगणैः ॥ १५॥ दण्डकारण्यवर्तिगोदावरीखण्डमित्यर्थः ॥ ११ ॥१२॥ अयोमुखः सह्यः ॥ १३॥ १४॥ तत इति । अप्सरोगणैः विहितां पूजितामित्यर्थः ॥ १५॥ तत्र विचेयप्रदेशानाह-ये केचनेति ॥ ७॥ तदेव विवृणोति-सहनशिरममित्यादि । पूर्ववत मध्यदेशापेक्षया विन्ध्याद्रेर्दक्षिणदिक्त्वव्यपदेशः सहस्रशिरसं सहस्र । शिखरम् ॥ ८ ॥९॥ वरारोहा महाभागा, पर आरोहो देष्य यस्यास्ताम् । “आरोहो देय॑मानयोः" इति विश्वः ॥ १०॥ सहनशिरसमित्यादिना सर्वमेवानु पश्यतेत्यन्तेन विन्ध्यस्य पश्चिमभागस्थान दक्षिणपार्श्वस्थाच नदीनगरदेशानुपदिश्य विदर्भानित्यादिना पर्वभागान् देशानुपदिशति ॥ ११ ॥ नदी
स-अत्र नदी गोदावरीमिति दण्डकारण्यस्थितगोदावरीप्रदेशप्रहणन, दतच तत्रैव सीताया गमनाविशेषतस्तत्रान्वेषणार्थम् ॥ १२ ॥ अगोमुख इति मलपस्य नामान्तरम् । सचन्दनवनोदेश इति तमिवदर्शनात "तस्यामीन नालाय मलयस्थ इनि अपमाण जाव। १३॥ १४॥अमरोगगदितां विठ्ठल विहरणम् अस्या अस्तीति मन्वयमाययान्तोऽयम् । ततश्च अप्सरोगणकर्तृक यद्विहरणं तद्वतीमित्येकदेशेनान्वयो बोभ्यः ॥१५॥
For Private And Personal Use Only