SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir साधकः अहं तु तस्य परिकरमात्रमिति भावः ॥ ७-१०॥ यदीति । अतिकान्तम् अतिक्रमणम् । क्षमितव्यं क्षन्तव्यम् ॥ ११ ॥ तनि०-इदं । कतापराधस्येति पूर्वोपदिष्टार्थस्यानुष्ठानम् । किंचिदिति अधिकातिकमणस्य प्रसादनेनानिवर्त्यत्वम्, यदीति स्वल्पस्पाप्यसंभावना च धोत्यते । विश्वासादिति बुद्धिपूर्वापराधव्यावृत्तिः । प्रणयेनेति अतिकमस्याभासत्वम् । प्रेष्यस्येति बुद्धिपूर्वकवास्तवापराधेपि क्षन्तव्यमिति व्यञ्जितम् । क्षमितव्यमित्युक्त्या अक्षमणे यदि किंचिदतिक्रान्तं विश्वासात् प्रणयेन वा । प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति ॥ ११॥ इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः। अभवल्लक्ष्मणः प्रीतः प्रेम्णा चैवमुवाच ह ॥१२॥ सर्वथा हिमम भ्राता सनाथो वानरेश्वर । त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः ॥ १३॥ यस्ते प्रभावः सुग्रीव यच्च ते शौचमार्जवम् । अर्हस्त्वं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम् ॥ १४॥ सहायेन च सुग्रीव त्वया रामः प्रतापवान् । वषिष्यति रणे शत्रूनचिरान्नात्र संशयः ॥ १५॥ धर्मज्ञस्य कृतज्ञस्य संग्रामेष्वनिवर्तिनः । उपपन्नं च युक्तं च सुग्रीव तव भाषितम् ॥ १६ ॥ दोषज्ञः सति सामर्थ्य कोऽन्ये भाषितुमर्हति । वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम ॥ १७ ॥ सदृशश्चासि रामस्य विक्रमेण बलेन च । सहायो दैवतैर्दत्तश्चिराय हरिपुङ्गव ॥ १८॥ किंतु शीघ्र मितो वीर निष्काम त्वं मया सह । सान्त्वय स्ववयस्यं त्वं भार्याहरणकर्शितम् ॥ १९॥ प्रत्यवायोपि व्यञ्जितः । न कश्चिन्नापराध्यतीति विश्वासप्रणयपात्रभूतस्प स्वल्मापराधत्वे अयमपराधः सर्वत्र वर्जनीय इति भावः ॥१५॥ १२-१५॥ उपपन्नम् । अहम् । युक्तं युक्तियुक्तम् ॥१६॥ दोषज्ञः स्वदोषज्ञः । लोके हि समर्थः पुरुषः स्वदोषमपढ़ते नतु प्रकाशयति, न तथा त्वमिति भावः ॥१७-१९॥ नरेन्द्रस्य रामस्य । अनु अनुसृत्य यात्रा करिष्ये ॥१०॥ अतिक्रान्तम् अतिक्रमणम् । विश्वासात आश्रितमपराधिनमपि न बाधत इति ज्ञानादित्यर्थः । प्रेष्यस्य परिचारकस्य क्षमितव्यम् । तत्र हेतुमाह कश्चिदिति । कश्चिदपि नापराध्यतीति न, परिचारकेषु मध्ये सर्वोप्यपराधी, तस्मात्क्षन्तव्यमिति भावः ॥११-१३॥ यस्ते प्रभावस्सुग्रीव यञ्च ते शौचमार्जवम् इत्यत्र तेनेत्यध्याहार्यः ॥ १४॥ १५॥ धर्मजस्येति । उपपन्नमर्हम् । युक्तं युक्तियुक्तम् ॥१६॥ दोषज्ञः विद्वान् । “विद्वान् विपश्चिदोषज्ञः" इत्यमरः॥ १७-१९ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy