________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandir
स्त्रीचापलात् स्त्रीत्वप्रयुक्तचापलात् । मे मया । मा चिरेण विचारस्य विलम्बो मा भूत् । अत्र सार्धत्रयस्त्रिंशलोकाः॥ ३३ ॥ इति श्रीगोविन्दराजविर ८ चिते श्रीरामायणभूपणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने नवमः सर्गः ॥ ९॥ एवं रामः सत्यप्रतिज्ञः निरं च रक्षोवधं न करिष्यति तथा च । मद्वियोगेन रक्षोवधेन भवितव्यं मदिरहं च न सहिष्यते, सङ्कटमिदमुपस्थितमित्याकुलचित्ता वैदेही पतिप्रेमान्धा रक्षोवधान्निवर्तयितुमुपक्रान्ता । स्त्रीचापलादेतदुदाहृतं मे धर्म च वक्तुं तव कस्समर्थः। विचार्य बुद्ध्या तु सहानुजेन यद्रोचते तत्कुरुमा चिरेण ॥३३॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे नवमः सर्गः ॥ ९॥
वाक्यमेतत्तु वैदेह्या व्याहृतं भर्तृभक्तया। श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम् ॥१॥
हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः । कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे ॥२॥ रामस्तु सीताविरह सोवापि तन्मूलवैरेण रक्षांसि निहत्य प्रतिज्ञा निर्वोढव्यति समाधत्ते दशमे-वाक्यमेतत्त्वित्यादि । भर्तृभक्तयेत्यनेन भर्तृप्रेमपार वश्येन पूर्वमुक्तमिति ज्ञायते । धर्मे स्थित इत्यनेन सीताविरहक्लेशमङ्गीकृत्यापि प्रतिश्रुतनिर्वहणपरता द्योत्यते । यद्यपि खरखध एव दण्डकारण्य वासिभिरर्थितो रामेण प्रतिज्ञातश्च तथापि खरखधो रावणवधमूलमिति खरखधद्वारा रावणवधोऽप्यर्थित एवेति सीतयोक्तमुपपन्नम् ॥ १ ॥ स्निग्धया अनुरक्तया । कुलं व्यपदिशन्त्या स्वमहाकुलीनत्वं प्रख्यापयन्त्या त्वया । सदृशम् अनुरागकुलसदृशं हितमुक्तम् । हितोक्ती हेतुः धर्मज्ञ इति । कुलव्यपदेशे हेतुः जनकात्मज इति ॥२॥ मित्यन्वयः ॥ ३२ ॥ ३३ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां नवमः सर्गः ॥९॥ वाक्यमिति । धर्मे स्थितः मुनिपरिपालनात्मके धर्मे स्थितः ॥१॥ कुलं व्यपदिशन्त्या क्षत्रियाणां हि वीराणामित्यादिना क्षत्रियकुलधर्म प्रकाशयन्त्येत्यर्थः ॥२॥
सपूर्व स्वस्य स्त्रियाः प्रकृतत्वेपि कः समर्थ इति पुंनिर्देशन स्त्रीपुरुषसाधारण्येन समर्थो नास्तीति सूचयति ! यहा कूटस्थोऽक्षर इति रमायाः पुंशक्तिमत्वेन पुंलिङ्गशब्दवाच्यत्वात् कः समर्थ इति वक्री स्वस्य तवं सूचयामासेत्यवसेयम् । अनुजेन सह विचार्येति लोकानुकरणार्थम् ॥ ३३ ॥
For Private And Personal Use Only