________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पदमिति क्रियाविशेषणम् । वनचारिणां भल्लूकादीनाम् ॥२९-३३॥ न त्वमिति । स्त्रीसन्निधौवचनम् स्त्रीजनभ्रामकं वचनमित्यर्थः ॥ ३२॥ उदयः सूर्योदयः । गृह्यताम् अवधित्वेन गृह्यताम् ॥ ३३ ॥ सम्प्रदानं देयद्रव्यम् । वानरान् बन्धून् परिष्वज्य तेभ्यः संप्रदानं दीयताम्, चरमकालदानं दीयता
तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः। उवाच दुन्दुभिर्वाक्यं रोषात्संरक्तलोचनः ॥ ३१ ॥ न त्वं स्त्रीसन्निधौ वीर वचनं वक्तुमर्हसि । मम युद्धं प्रयच्छाद्य ततो ज्ञास्यामि ते बलम् ॥ ३२ ॥ अथवा धारयिष्यामि क्रोधमद्य निशामिमाम् । गृह्यतामुदयः स्वैरं कामभोगेषु वानर ॥ ३३॥ दीयतां सम्प्रदानं च परिष्वज्य च वानरान् । सर्व शाखामृगेन्द्रस्त्वं संसादय सुहृज्जनान् ॥ ३४ ॥ सुदृष्टां कुरु किष्किन्धा कुरुष्वात्मसमं पुरे। क्रीडस्व च सह स्त्रीभिरहं ते दर्पनाशनः ॥ ३५॥यो हि मत्तं प्रमत्तं वा सुप्तं वा रहितं भृशम् । हन्यात्स भ्रूणहा लोके त्वद्विधं मदमोहितम् ॥ ३६ ॥ स प्रहस्याब्रवीन्मन्दं क्रोधात्तमसुरोत्तमम् । विसृज्य ताः स्त्रियः सर्वास्ताराप्रभृतिकास्तदा
॥ ३७॥ मत्तोऽयमिति मा मंस्था यद्यभीतोऽसि संयुगे । मदोऽयं संप्रहारेऽस्मिन् वीरपानं समर्थ्यताम् ॥ ३८॥ मित्यर्थः । संसादय कञ्चिदपि कालं सङ्गच्छस्व । आत्मसमं राजानमित्यर्थः । क्रीडव क्रीड, अयेति शेषः । दर्पनाशनः, पश्चादिति शेषः ॥३४॥३५॥ यो हीति । मत्तं मधुपानादिना मत्तम् । प्रमत्तम् अनवहितम् । रहितम् आयुधादिशून्यम् । त्वद्विधं त्वामिव स्त्रीमध्यगतम् । मदमोहितम् मदनमोहितम् । यो हन्यात्स भ्रूणहा गर्भवधकृत् ॥३६॥ रामानु०-मदमोहित स्त्रीभोनार्थमधुषानमदादितिकर्तव्यतामूढम् ॥ ३६ ॥ स इति । मन्दं प्रहस्य । धान्वितवाक्यत्वादिति भावः। ताः विसृज्यात्रवीत् ॥३७॥ मत्त इति। संयुगे यद्यभीतोसि तदा अयं मत्त इति मा मस्थाः । अयं मदः । अस्मिन् संप्रहारे युद्धे वीरपानं समर्थ्यता अथवा धारयिष्यामीति । उदयः सूर्योदयः । गृह्यताम् अवधित्वेन गृह्यताम् । सूर्योदयपर्यन्तं स्यादिभोगाननुभवेति भावः ॥३३॥ सम्पादय सङ्गच्छस्व । सम्पदानं युद्धम् ॥३४॥३५॥ मत्तं मधुपानादिना मत्तम् । प्रमत्तम् अनवहितम् । रहितम् आयुधादिरहितम् । त्वद्विधं त्वामिव स्त्रीमध्यगतम् । मदमोहितं स्त्रीभोगार्थ मधुपाना| दितिकर्तव्यतामूढम् ॥३६॥३७॥ मत्तोयमिति । संयुगे यद्यभीतोसि अयं मत्त इति मावसंस्थाः । अयं मदः। अस्मिन् प्रहारे युद्धे। वीरपानं समर्थ्यता वीरपानं कृतमिति |
%
%
For Private And Personal Use Only