________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kailasagasun Gyarmandir
वा.रा.भ.
परमावासस्थानम् । नित्यनपुंसकम् । प्रस्रवणं निर्झरः। निर्दराः विदीर्णपाषाणरन्ध्राणि ॥ १२-१८॥ यदीति । त्वं युद्धासमथों पदि यदि वा समापि । मद्भयान्निरुद्यमः, उभयथापि न त्वां योत्स्यामीत्यर्थः। युयुत्सतः योद्धुमिच्छतः ॥१९॥ हिमवानिति । अनुक्तपूर्वम् इतः पूर्व केना- धनुक्तं वाक्यम् । अत।
स.११ यदि युद्धेऽसमर्थस्त्वं मद्भयादा निरुद्यमः। तमाचक्ष्व प्रदद्यान्मे योऽद्य युद्धं युयुत्सतः ॥१९॥ हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः । अनुक्तपूर्व धर्मात्मा क्रोधात्तमसुरोत्तमम् ॥ २०॥ वाली नाम महाप्राज्ञः शक्रतुल्य पराक्रमः। अध्यास्ते वानरः श्रीमान् किष्किन्धामतुलप्रभाम् ॥ २१ ॥ स समर्थो महाप्राइस्तव युद्धविशारदः। द्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः॥२२॥ तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि । स हि दुर्धर्षणो नित्यं शूरः समरकर्मणि ॥ २३ ॥ श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः स दुन्दुभिः । जगाम तां पुरीं तस्य किष्किन्धा वालिनस्तदा ॥ २४॥ धारयन् माहिषं रूपं तीक्ष्णशृङ्गो भयावहः । प्रावृषीव महामेघस्तोयपूर्णो नभस्तले ॥२५॥ ततस्तदद्वारमागम्य किष्किन्धाया महाबलः । ननद कम्पयन् भूमि दु दुभिर्दुन्दुभिर्यथा ॥ २६ ॥ समीपस्थान् द्रुमान् भञ्जन वसुधां दारयन् खुरैः। विषाणेनोल्लिखन दत्तवारं द्विद दो यथा ॥ २७ ॥ अन्तःपुर गतो वाली श्रुत्वा शब्दममर्षणः । निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः ॥ २ ॥ मितं व्यक्ताक्षरपदं त मुवाचाथ दुन्दुभिम् । हरीणामीश्वरो वाली सर्वेषां वनचारिणाम् ॥ २९॥ किमर्थं नगरद्वारमिदं रद्धा विनर्दसि ।
दुन्दुभे विदितो मेऽसि रक्ष प्राणान् महाबल ॥ ३०॥ एव क्रोधात् ॥ २० ॥२१॥ स इति । दातुं समर्थ इत्यन्वयः ॥ २२-२५ ॥ तद्वारं किष्किन्धाद्वारम् । विषाणेन उल्लिखन मद्भिन्दन् ॥ २५ ॥२७॥॥३२॥ अन्तःपुरगत इति । सह स्त्रीभिरिति मदातिरेकादिति भावः ॥२८॥ व्यक्तान्यक्षराणि येषु तानि व्यक्ताक्षराणि पदानि यस्मिन् कर्मणि तब्यक्ताक्षर ति०-अनुक्तम् इतः पूर्व नोक्तः युद्धदाता पस्प तमसुरम् । अनुकपूर्वम् अन्य गडेनि कदाचनुक्तम् ॥२०॥ इन्दयुद्धस दातुं ते इति पाटे-एकः सशब्दः प्रसिद्धपराकमार्थकः ॥ २२ ॥
For Private And Personal Use Only