________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
अहं यथापुरं पूर्ववद्युवराजो भवामीत्यर्थः । राजभावनियोगः राजत्वेन राज्यशासनम् ॥ ७-९ ॥ बलादिति । शून्यदेशजिगीषया राजशून्यदेशवशी करणेच्छया ॥ १० ॥ रामानु० - शून्यदेशजिगीषया । देशस्य राजशून्यत्वापनिनीपयेत्यर्थः ॥ १० ॥ स्निग्धमिति । तत्तत्परुषभाषणम् । अश्लीलतया विशिष्य त्वमेव राजा मानार्हः सदा चाहं यथापुरम् । राजभावनियोगोऽयं मया त्वद्विरहात्कृतः ॥ ७ ॥ सामात्यपौरनगरं स्थितं निहतकण्टकम् । न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम् ॥ ८॥ मा च रोषं कृथाः सौम्य मयि शत्रुनिबर्हण । याचे त्वां शिरसा राजन् मया बद्धोऽयमञ्जलिः ॥ ९ ॥ बलादस्मि समागम्य मन्त्रिभिः पुरवासिभिः । राजभावे नियुक्तोऽहं शून्यदेशजिगीषया ॥ १० ॥ स्निग्धमेवं ब्रुवाणं मां स तु निर्भत्र्त्स्य वानरः । धिक् त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह ॥ ११ ॥ प्रकृतीश्च समानीय मन्त्रिणश्चैव संसतान् । मामाह सुहृदां मध्ये वाक्यं परमगर्हितम् ॥ १२ ॥ विदितं वो यथा रात्रौ मायावी स महासुरः । मां समाह्वयत क्रूरो युद्धकांक्षी सुदुर्मतिः ॥ १३ ॥ तस्य तद्वचनं श्रुत्वा निस्सृतोहं नृपालयात् । अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः ॥ १४ ॥ स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः । प्राद्रवद्भयसंत्रस्तो वीक्ष्यावां तमनुतौ ॥ १५ ॥ अनुद्रुतश्च वेगेन प्रविवेश महाबिल ॥ १६ ॥ तं प्रविष्टं विदित्वा तु सुघोरं सुमहद्विलम् । अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः ॥ १७ ॥ अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम् । बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम् ॥ १८ ॥
नोक्तम् ॥ ११ ॥ प्रकृतीरिति । मामुद्दिश्य प्रकृत्यादीनाहेत्यर्थः ॥ १२ ॥ रामानु० - मामपदिश्य मन्त्रयादीन् प्रत्याह ॥ १२ ॥ ॥ १३-१९ ॥
मम राजभावे राजत्वे त्वद्विरहादयं नियोगः कृत इति सम्बन्धः ॥ ७ ॥ सामात्येति । निर्यातयामि प्रत्यर्पयामि ॥ ८ ॥ ९ ॥ शून्यदेशजिगीषया देशस्य राजशून्य | त्वापनिनीषयेत्यर्थः ॥ १० ॥ ११ ॥ प्रकृतीरिति । मामाह मामुद्दिश्य मन्ध्यादीन् प्रत्याहेत्यर्थः ।। १२-१९ ।।
विषम० शून्यदेशस्य राजहीनदेशस्य या परेषां जिगीषा तथा तन्निवृचिहेतुना ' मशकार्ये धूमः ' इतिवदयं प्रयोगः । शून्यदेश जिगीषया शून्येति भावप्रधानन शुन्यत्वं ददतीति शून्यदाः । ते च ते ईशाच दिषन्तो राजानः, तजिगीषया तज्जपेच्छया । यद्वा शून्यो देश इति या जिगीषा प्राप्तीच्छा तथा जिरत्र प्राप्त्यर्थको धनजित इत्यादिवत् ॥ विधे स्नेहपूर्वम् ॥ १० ॥ ११ ॥
For Private And Personal Use Only