________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.कि.का.
वा.रा.भ.
॥२९॥
स०१०
सान्त्वनेपि पिकरणात् पापिष्टं तं प्रति निग्रहे समर्थस्य, प्रकृतिबलसम्पन्नत्वादिति भावः । यन्त्रिता नियमिता ॥ २३॥ प्रविवेश पुरमित्युक्त्या मन्त्रिबन्धनादिकं पुरादहिरिति ज्ञेयम् ॥२४॥२५॥ नत्वति । मम क्रोधान्मयि कोपात् ॥२६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे - मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने नवमः सर्गः ॥ ९॥ अथ वालिदोषदर्शनेन रामस्य दृढतरा वालिवधप्रतिज्ञा दशमे-तत इत्यादि ॥१॥
हत्वा शत्रु स मे भ्राता प्रविवेश पुरं तदा । मानयंस्तं महात्मानं यथावच्चाभ्यवादयम् ॥२४॥ उक्ताश्च नाशिषस्तेन सन्तुष्टेनान्तरात्मना ॥ २५॥ नत्वा पादावहं तस्य मुकुटेनास्पृशं प्रभो।अपि वाली मम क्रोधान्न प्रसादं चकार सः ॥ २६ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे नवमः सर्गः ॥९॥ ततःक्रोधसमाविष्टं संरब्धं तमुपागतम् । अहं प्रसादयाञ्चक्रे भ्रातरं प्रियकाम्यया ॥ १॥ दिष्टयासि कुशली प्राप्तो निहतश्च त्वया रिपुः । अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दनः॥२॥ इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम् । छत्रं सवालव्यजनं प्रतीच्छस्व मयोद्यतम् ॥ ३॥ आर्तश्चाथ बिलद्वारि स्थितः संवत्सरं नृप । दृष्ट्वाहं शोणितं दारि बिलाच्चापि समुत्थितम् ॥ ४॥ शोकसंविग्रहदयो भृशं व्याकुलितेन्द्रियः। अपिधाय बिलद्वारं शैलशृङ्गेण तत्तथा । तस्माद्देशादपाक्रम्य किष्किन्धां प्राविशं पुनः॥५॥ विषादात्त्विह मां दृष्ट्वा पौरैमन्त्रिभिरेव च । अभिषिक्तो न
कामेन तन्मे त्वं क्षन्तुमर्हसि ॥६॥ अनाथान् नन्दयतीत्यनाथनन्दनः ॥२॥ रामानु" त्वमेकोनाथनन्दन इत्यत्र अनाथेति पदच्छेदः ॥ २ ॥ उद्यतम् अर्पितम् । प्रतीच्छस्व प्रतीच्छ ॥३॥ संवत्सरं बिलद्वारि स्थितः अहं च बिलद्वारि समुत्थितं शोणितं दृष्ट्वा आर्तश्चास्मि ॥४॥ शोकसंविग्रहृदयः शोककम्पितहृदयः । तदिलद्वारम् ।। तथा त्वया दृष्टप्रकारेण । अपिधाय प्रच्छाय। प्राविशम् ॥५॥ इह विषादादागतं मां दृष्ट्वा । विषादात् राज्यनाशविषादात् ॥ ६॥ तथापि वाली कालुष्यं न जहातीत्याह-उक्ता इति ॥ २५ ॥२६॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां नवमः सर्गः ॥९॥१॥ दिष्ट्येति । त्वमेकोऽनायनन्दन इत्यत्र अनाथनन्दन इति च्छेदः ॥२॥ बहुशलार्क शितशलाकम् ॥२॥४॥ अपिधाय तिरोधाय ॥५॥६॥
॥२९॥
For Private And Personal Use Only