SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagersun Gyanmandir कण्टकिसंसर्गः। पद्मकेसरसंसृष्टः नायं वातः किंतु केसरी। सिंहः इत्यपि ध्वनिः । यदा पद्मकेसरैः संसृष्टः । स्वयमेव संहारक्षमः । तदुपरि ससहायः ।। यद्वा रूपवान् ह्यसहायशूरः, रूपरहितोऽयं कथं न सहायमपेक्षेत ? रूपवान् दृढशरीर इत्यपि ध्वनिः । वायुर्बाधकश्चेत्त्वया पूर्वमेव परिहत्य वर्तितव्यम् तबाह-वृक्षान्तरविनिस्मृतः । दूरे दृष्ट्वा परिहर्तुं शक्यते । वृक्षपण्डे पूर्वमात्मानं सङ्गोप्य स्थित्वा झटिति विनिर्गतः । यद्वा यथा राजकुमारः सौकुमार्येण छायामागेणागच्छति तथायमपीत्यर्थः । यद्वा मन्मथतापेन विश्रमाय तरुच्छायमपि नाश्रयितुं क्षमते । यदि तेऽहं बाधकः तर्हि दूरादपसरेत्यत्राहनिःश्वास इव सीतायाः । पूर्वपरिचितवदवभासमानतया परिहर्तुमपि न शक्नोमि । यद्वा सीतानिश्वासतुल्यतया सात्र किं वृक्षमूले निलीना समागच्छ तीति चापलातिशयेनान्यत्र न चलितुं शक्नोमि । “सुरभिनिःश्वसिते दधतस्तृषाम्" इति निःश्वासस्य सौरभ्यं कविभिरुक्तम् । यद्वा न केवलमनिलः सपरिकर एव बाधते, किं तु स्मारकतयापि वाति । न कदाचिदायाति । सर्वदायाति । सकलमपि काननं सविलासं संचरति । यदा । वाति " वा गतिगन्धनयोः" स्वार्जितगन्धेन सर्वान् परवशीकरोति । एतादृशबाधकोपि न यः कश्चिदित्याह-वायुः सर्वोज्जीवनहेतुः । यद्वा " भीषास्मादातः पवते" इति मत्तो भीतो मां भर्त्सयति । बाधनप्रकारमाह-मनोहरः । आन्तरमपि पदार्थमपहरति । पद्मकेसरसंसृष्ट इत्यनेन शैत्यमुक्तम् । वृक्षान्तर विनिःसृत इत्यनेन मान्द्यम् । निःश्वास इव सीताया इति सौरभ्यम् । यद्वा पद्मकेसरसंसृष्ट इत्यनेन चोरसमाधिरुच्यते । स्वस्वरूपापरिज्ञानाय भीजनभीषणाय च भस्मोद्धूलितवदनः समायाति । वृक्षान्तरविनिःसृतः । पथिकानां स्वसमीपागमनपर्यन्तं गूढतया स्थित्वा तेषु समीपमागतेषु सपदि समुत्तिष्ठन्निव भाति । निःश्वास इव सीतायाः चिरपरिचित इव सरससँल्लापविशेषैः कस्ते ग्रामः किं ते नामोत सम्भाषमाण इव स्थितः । वाति धनस्य हस्तगतिपर्यन्तं निःस्पृहतया ततस्ततः सञ्चरन्निव स्थितः । वायुः चौर्य दृष्ट्वा केनचित् ग्रहीतुमुयुक्तश्चेल्लाघवेन हस्तग्रहणानहः । मनोहरः नापाततोपाहरत्, अपि तु सुगुप्तमपि । अनेन निर्हेतुकहरिदयाप्रवाह उपवर्ण्यते-पद्मकेसरसंसृष्टः । “ड्यापोः संज्ञाछन्दसोः-" इति ह्रस्वः। पद्मायाः केसरैः तत्तुल्यानुरागैः संसृष्टः, पुरुषकारभूतलक्ष्मीप्रणयप्रवृत्त इत्यर्थः । “पितेव त्वत्प्रेयान् जननि परिपूर्णागसि जने हितस्रोतोवृत्त्या भवति च कदाचित्कलुषधीः । किमेतन्निर्दोषः क इह जगतीति त्वमुचितैरुपायविस्मार्य स्वजनयसि माता तदसि नः ॥" वृक्षान्तरविनिःसृतः "ऊर्ध्वमूल मधःशाखमश्वत्थं प्राहुरव्ययम् ।" इति वृक्षत्वेनोक्ते संसारमण्डले प्रवृत्तः। निःश्वास इव सीतायाः "स्त्रीप्रायमितरत्सर्वम्" इति परतन्त्रतया स्त्रीतुल्यानां लोकानाम् आश्वासको धारकश्चेत्यर्थः । वाति अनवरतं प्रवहति । वायुः सार्वत्रिकः । मनोहरः मानसिकसकलकल्मपहरः । द्रविडोपनिषद्व्याख्या For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy