SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir Mभवति तथेत्यर्थः ॥ ३०॥ न्यायेन सम्यक्त्वेन ॥ ३१ ॥ न्यायवृत्तेन नीतिमचरित्रेण ॥ ३२ ॥ कारणान्तरे भ्रातृविरोधरूपनिमित्तान्तरे । अयं रावण मेव न जानाति सुग्रीवं तु जानाति किंतु तत्राम न कथितवान् दाहात्पूर्व कथने कुत्सितशरीरदहने रामो वैमनस्यं कुर्यादिति । अस्मिन् सर्गे सात्रिय विशश्लोकाः॥३॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकसप्ततितमः सर्गः॥ ७१॥ दग्धस्त्वयाहमवटे न्यायेन रघुनन्दन । वक्ष्यामि तमहं वीर यस्तं ज्ञास्यति राक्षसम् ॥३३॥ तेन सख्यं च कर्तव्यं न्यायवृत्तेन राघव । कल्पयिष्यति ते प्रीतः साहाय्यं लघुविक्रमः ॥ ३२॥ न हि तस्यास्त्यविज्ञातं त्रिषु लोकेषु राघव । सर्वान् परिसृतो लोकान् पुरासौ कारणान्तरे॥३३॥ इत्यार्षे श्रीमदारण्यकाण्डे एकसप्ततितमः सर्गः॥७१ एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ। गिरिप्रदरमासाद्य पावकं विससर्जतुः ॥१॥ लक्ष्मणस्तु महोल्काभि ज्वलिताभिः समन्ततः। चितामादीपयामास सा प्रजज्वाल सर्वतः॥२॥ तच्छरीरंकबन्धस्य घृतपिण्डोपमं महत् । मेदसा पच्यमानस्य मन्दं दहति पावकः॥३॥ स विधूय चितामाशु विधूमोग्निरिवोत्थितः। अरजे वाससी विभ्र न्मालां दिव्यां महाबलः ॥४॥ ततश्चिताया वेगेन भास्वरो विमलाम्बरः । उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः ॥५॥ विमाने भास्वरे तिष्ठन् हंसयुक्ते यशस्करे । प्रभया च महातेजा दिशो दश विराजयन् ॥ ६॥ अथ संस्कृतः कबन्धः स्वरूपं प्रत्यापन्नो मित्रमुपदिशति द्विसप्ततितमे-एवमुक्तावित्यादि । प्रदरं श्वभ्रम् । आसाद्य प्रापय्य कबन्धमिति शेषः ॥ube महोल्काभिः निर्गतज्वालकाष्ठैः ॥२॥दसा मसिन पच्यमानस्य अभिवृद्धस्य कबन्धस्य शरीरम् ॥३॥ अरजे निर्मले । अदन्तत्वमाषम् ॥४॥ सतत इति । चिताया उत्पपात सर्वेषु प्रत्यङ्गेष्वङ्कल्यादिष्वपि भूषणानि यस्य स तथा ॥५॥ हंसयुक्त इत्यनेन रामदग्धतया ब्रह्मलोकप्राप्तिः सूच्यते।। कर्तु वर्ततामस्माकं सीतामाचक्ष्व, कुरु कल्याणमिति सम्बन्धः । तदेवाह-काष्ठानीति । यद्वा शोकार्तानमिति उपकारे सति सदृशं कारुण्यं प्रत्युपकाररूपं कारुण्यं । iVतु वर्तताम् । तदेवाह-काष्ठानीति । कल्याणं सीतावार्ताश्रवणानन्दरूपम् ॥२३-३३॥ इति श्रीमहे०श्रीरामा आरण्यकाण्डव्याख्यायाम एकसप्ततितमः सर्गः ॥७१ पवमुक्ताविति । पावकं विससर्जतुः पावकमुत्पादितवन्तावित्यर्थः ॥ १ ॥२॥ तदिति । मेइसा, पूर्णस्येति शेषः । अतएव मन्दं दहति ॥ ३ ॥ अरजे निर्मले ४॥ सर्वप्रत्यङ्गभूषणः सर्वेषु प्रत्यङ्गेषु करचरणाद्यवयवेषु भूषणानि यस्य सः॥५॥ ससंयुक्ते रामकृतसंस्कारप्रभावेण पूर्वतप:प्रभावेण चैवम्भूतं विमानं प्राप्तः ॥६॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy