SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir धर्मः कालधर्मः विनाशः तेन कालधर्मणा । अनिजापः ॥६२॥ ६३ ॥ न तामिति । तस्मादस्मिन् मुहूर्त इत्युपस्कार्यम् । कुशलिनी शेमयुक्ताम्, अक्षतामित्यर्थः ॥६॥ नाकाशमिति । गुणो मौर्वी ॥६५॥ अर्दितं हिंसितम् । समाकुलं सम्यग्व्यग्रम् । अमर्यादं त्यक्तस्वस्वप्रकृत्यवस्थानम् ॥६६॥ दुरावरैः दुवीरैः।जीवलोकं ब्रह्माण्डम् ॥ ६७ ॥ रोपप्रयुक्तानां रोषसंप्रयुक्तानाम्, ममेति शेषः । अतिदूरातिगामिनाम् अतिदूरातिपातिनाम् ॥ ६८॥ न तां कुशलिनी सीतां प्रदास्यन्ति ममेश्वराः। अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् ॥ ६४ ॥ नाकाश मुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण । मम चापगुणोन्मुक्तैर्वाणजालनिरन्तरम् ॥६५॥ अर्दितं मम नाराचैर्ध्वस्तभ्रान्त मृगदिजम् । समाकुलममर्यादं जगत् पश्यार्य लक्ष्मण ॥६६॥ आकर्णपूर्णेरिषुभिर्जीवलोकं दुरावरैः । करिष्ये मैथिलीहेतोरपिशाचमराक्षसम् ॥ ६७॥ मम रोषप्रयुक्तानां सायकानां बलं सुराः । द्रक्ष्यन्त्यद्य विमुक्तानामति दूरातिगामिनाम् ॥६८॥ नैव देवा न दैतेया न पिशाचा न राक्षसाः । भविष्यन्ति मम क्रोधात्रैलोक्ये विप्रणा शिते ॥ ६९ ॥ देवदानवयक्षाणां लोका ये रक्षसामपि । बहुधा न भविष्यन्ति बाणोधैः शकलाकृताः॥७॥ निर्म र्यादानिमाँल्लोकान् करिष्याम्यद्य सायकैः । हृतां मृतां वा सौमित्रे न दास्यन्ति भमेश्वराः ॥ ७ ॥ तथारूपां हि वेदही न दास्यन्ति यदि प्रियाम् । नाशयामि जगत्सर्वं त्रैलोक्यं सचराचरम् ॥ ७२ ॥ इत्युक्त्वा रोषताम्राक्षो रामो निप्पीडय कार्मुकम् । शरमादाय संदीप्तं घोरमाशीविषोपमम् ॥ ७३ ॥ न भविष्यन्ति नशिष्यन्तीत्यर्थः । पूर्व दुःखप्राप्तिरवोक्ता ॥ ६९॥ देवेति । बहुधा शकलीकृता इत्यन्वयः ॥ ७० ॥ निर्मादान स्वस्वव्यवस्थारहि । नान् । न दास्यन्ति न दास्यन्ति यदि ॥७१॥ हृतां मृतां वेत्यत्र सूचितमाह-तथारूपामिति । जगत्सर्वं सर्व जनमित्यर्थः । अन्यथा त्रैलोक्यमित्य नन पुनरूक्तिः सचराचरमित्यनुवादः ॥ ७२ ॥ इत्युक्त्वेति श्लोकद्वयमेकान्वयम् । निष्पीड्य दृढमुष्टिबलेन गृहीत्वा ॥ ७३ ।। ७४॥ लामंयक्तं करिष्यामीत्यन्वयः ॥६२॥ १३ ॥ न तामित्यत्र यदिशब्दोऽध्याहार्यः ॥६॥ नेति । निरन्तरं नीरन्धम् आकाशे नोत्पतिष्यन्तीत्यन्वयः ॥६५-६८॥ नैवेति नभरिप्यन्तीत्यर्थः ।। ६९॥७॥ निर्मर्यादानिति । न दास्यन्तीत्यत्र यदीत्यध्याहार्यम् ॥ १॥ ७२ ॥ इतीति । निष्पीडच हहमुष्टिवन्धेन गृहीत्वा ॥७३॥vnld For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy