________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kailasagasun Gyarmandie
वा.रा.म. ॥१५॥
कारुण्यादिः मां प्राप्य दोषः संवृत्तः अनिष्टसाधनत्वेन संवृत्तः । तस्मादस्मदवमानहेतुतया दोषरूपेण गुणेन किं प्रयोजनमित्यर्थः । यद्वा सर्वभूतानां ।। रक्षसां च अभवाय नाशाय गुणः दोपः संवृत्तः, दयां त्यक्त्वा कोधं करिष्यामीत्यर्थः ॥५८॥ तनि०-सर्वभूतानां राक्षसानुकूलतया यानि भूतानि प्रवर्तन्ते तेषां । रक्षसां च अभवाय नाशाय॥५८॥ संहृत्येति । यथा उदितः सूर्यः शशिज्योत्स्रां शीतलचन्द्रचद्रिका संहृत्यैव प्रकाशते तथा मम तेजः गुणान् मृदुत्वादीन् ।
संहृत्यैव शशिज्योत्स्ना महान मूर्य इवोदितः । संहृत्यैव गुणान् सर्वान् मम तेजः प्रकाशते ॥ ५९॥ नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः। किन्नरावा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण ॥६०॥ ममात्रबाणसम्पूर्णमाकाशं पश्य लक्ष्मण । निस्सम्पातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम् ॥६१॥ सन्निरुद्धग्रहगणमावारितनिशाकरम् । विप्र नष्टानलमरुद्भास्करद्युतिसंवृतम् ॥ ६२॥ विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् । ध्वस्तद्रुमलतागुल्मं विप्र
णाशितसागरम् । त्रैलोक्यं तु करिष्यामिसंयुक्तं कालधर्मणा ॥ ६३ ॥ पसंहृत्यैव प्रकाशते ॥ ५९॥ तनि०-शशिज्योत्स्वामित्युपलक्षणम् । उदितो महान् सूर्यः अनायासेन शशिज्योत्स्नादीनि तेजांस्यपहृत्य यथा प्रकाशते तद्वन्मम तेजः
सकलवस्तुगुणान् संहृत्य प्रकाशते ॥५९॥ देवविषयः कोपस्तत्सम्बन्धिष्वपि प्रवर्ततामित्याह-नैवेति॥६०॥ ममेति । अस्त्राणि ब्रह्मास्त्रादीनि । पश्य, उत्तरक्षण इति शेषः । त्रैलोक्यचारिणां निस्सम्पातं बाणप्रचारतोऽशक्यसञ्चारम् ॥६॥सन्निरुद्धेत्यादिसाघचोकदयमेकान्वयम् । सन्निरुद्धः ग्रहगणः ग्रहगणसञ्चारः यस्य। आवारितः आच्छादितः। विप्रनष्टानलमरुत् नष्टाग्निवातंभास्करद्युतिसंवृतं संवृतभास्करद्युति । आहितान्यादित्वान्निष्ठायाः परनिपातः। कालसाघ्यो विसज्य अतःपरमेवं करिष्यामीत्याह-अयेवेत्यादि ॥५८॥ शशिज्योत्स्नांचन्द्रचन्द्रिका संहत्य अभिभूय उदितो रविरिव सर्वगुणान् तेजासि संहत्याभिभूय मम तेजः प्रतापः प्रकाशत इत्यन्वयः ॥५९॥६०॥ ममेति । निस्सम्पातं निस्सञ्चारम् ॥ ६१ । सन्निरुध्येत्यादि सार्धश्लोकद्वयमेकं वाक्यम् । विप्रनष्टानलजलमरुद्भास्कर संवृतम् इति पाठः । विप्रनष्टाः अनलजलमरुतो यस्मिस्तत्तथा भास्करसंवृतं भास्करस्य संवृतं संवरणं यस्मिन् तत, लीनभास्करमित्यर्थः । विप्रनष्टाखिलमह. भास्करद्युतीत्यपि पाठः । तस्यायमर्थ:-विमनष्टाः अखिलमद्दता भास्करस्य च शुतयो यस्मिन् तत् । अत एव संवृतम्, तमसेति शेषः । कालधर्मणा विनाशेन
११५॥
For Private And Personal use only