________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
ग.रा..
निमित्तान्तरेणापि सीताहानिमनुमिनोनि-मनश्चेति । इह सीतावियोगविषये । अप्रहृष्टं विकारं स्फुरणम् । नास्तीति, आश्रम इति शेषः ॥ २५॥ टी.आ.कां इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ॥५७ ॥ अथ सीताप्राप्तिसन्देहकृतशोकस.५८ प्रलापोऽष्टपञ्चाशे-स दृष्ट्वेत्यादि । शून्ये वने वैदेहीं विना आगतं वैदेही विसृज्यागतं लक्ष्मणं पर्यपृच्छत पर्यपृच्छत् ॥ १ ॥ प्रश्नस्वरूपमाह
मनश्च मे दीनमिहाप्रहृष्टं चक्षुश्च सव्यं कुरुते विकारम् । असंशयं लक्ष्मण नास्ति सीता हृता मृता वा पयि वर्तते वा ॥२५॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तपञ्चाशः सर्गः ।। ५७ ॥ स दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः । पर्यष्टच्छत धर्मात्मा वैदेहीमागतं विना ॥१॥प्रस्थितं दण्डकारण्य या मामनुजगाम ह । क सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः ॥२॥ राज्यभ्रष्टस्य दीनस्य दण्डकान परि धावतः । क सा दुःखसहाया मे वैदेही तनुमध्यमा ॥३॥ यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम् । क सा प्राण सहाया मे सीता सुरसुतोपमा ॥ ४॥ पतित्वममुराणां वा एथिव्याश्चापि लक्ष्मण । तां विना तपनीयाभा नेच्छेयं जनकात्मजाम् ॥५॥ कच्चिज्जीवति वैदेही प्राणैः प्रियतरा मम । कच्चित्प्रवाजूनं सौम्य न मे मिथ्या भविष्यति
॥६॥ सीतानिमित्तं सौमित्र मृते मयि गते त्वयि । कच्चित् सकामा सुखिता कैकेयी सा भविष्यति ॥७॥ पस्थितमित्यादिना । दण्डकारण्यं प्रति प्रस्थितम् ॥२॥ दुःखसहाया समानदुःखेत्यर्थः ॥३॥ सुरसुता सुरस्त्री ॥४॥ तपनीयं स्वर्णम् । इच्छे| Mयम् इच्छामि ॥५॥ प्राणैः प्राणेभ्यः । प्रवाजनं चतुर्दशवर्षवनवासः । मिथ्या असत्यं न भविष्यतीति कञ्चित् । चतुर्दशवर्षसमाप्तावेव सीतावियोगजं| जीववियोगं किं प्राप्म्यामीत्यर्थः॥६॥ सीतानिमित्तम सीताविनाशनिमित्तम् । त्वयि गते, अयोध्यामिति शेषः । सकामेत्यनेन रामस्म हृदये कैकेयी स्वर एवेति ॥ २३ ॥२४॥ इति श्रीमहेश्वरतीयविरचितार्या श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां सप्तपचाशः सर्गः ॥५७॥ म इति । शून्ये विजने देशे विदेहीं विनागतं लक्ष्मण पर्यपृच्छदिति सम्बन्धः॥१-१॥ प्राणसहाया या प्राणानां सहाया तो विना प्राणा असहायाः कर्य तिष्ठन्तीत्यर्थः ॥ ४॥५॥ कचिदिति ॥१४॥ प्राणः प्राणेभ्यः । प्रवाजनं चतुर्दशवर्षवनवासव्रतधारणं मिथ्या वितर्थ भविष्यति न कश्चित् वनवासं यथोक्तं न समापपिष्यामि कचिव, सीतापाये असमाप्त एवं वनवासे ममापायो भविष्यतीत्यर्थः॥६॥सीतानिमित्तमिति । सीतानिमित्तं सीताविनाशनिमित्तम् । त्वयि गते, अयोध्यामिति शेषः ॥ ७॥
For Private And Personal Use Only