________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
ते त्वया इत्युवाचेत्यन्वयः॥१८॥ नेति । केनापि हेतुना विनष्टा वा राक्षसैक्षिता वा ॥ १९॥ उक्तार्थे हेतुमाह-अशुभानत्यिधैन । भूयिष्ठं बहुलं यथा तथा ॥२०॥ अपीति । अपिः प्रश्ने । सामग्र्यम् अक्षतत्वं क्षेममिति यावत् । हे लक्ष्मणेति सम्बन्धः ॥२१॥सामग्र्यप्राप्तिसंशये कारणमाह-यथेति ।
अहो लक्ष्मण गा ते कृतं यस्त्वं विहायताम् । सतिामिहागतःसौम्य कच्चित् स्वस्ति भवेदिह ॥ १८॥न मेऽस्ति संशयो वीर सर्वथा जनकात्मजा। विनष्टा भक्षिता वापि राक्षसैर्वनचारिभिः ॥ १९॥ अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे ॥२०॥ अपि लक्ष्मण सीतायाः सामग्र्यं प्राप्नुयावहे। जीवन्त्याः पुरुषव्याघ्र सुताया जनकस्य वै॥२१॥ यथा वै मृगसङ्घाश्च गोमायुश्चैव भैरवम् । वाश्यन्ते शकुनाश्चापि प्रदीप्तामभितो दिशम् ॥२२॥
अपि स्वस्ति भवेत्तस्या राजपुत्र्या महाबल ॥ २३ ॥ इदं हि रक्षो मृगसन्निकाशं प्रलोभ्य मां दूरमनुप्रयान्तम् । हतं कथञ्चिन्महता श्रमेण स राक्षसोऽभून्म्रियमाण एव ॥२४॥ प्रदीप्तां दिशं सूर्याधिष्ठिता तत्पार्श्वद्वयदिशौ च प्रदीप्ता तामभिमुखं वाश्यन्ते नदन्ति । तेन वायसादिपक्षिणां शृगालादीनां कृष्णसारादिमृगाणां च ।। सूर्याधिष्टितदिशि कूजनं दुःखसूचकमित्युक्तम् ॥ २२ ॥ चिन्तातिशयेन पुनरप्याह-अपि स्वस्तीति । अर्धमेकान्वयम् ॥ २३ ॥ लक्ष्मणाय दर्शयतिइदमिति । मृगसन्निकाशं पूर्व मृगवद्भातम् । इदं रक्षः महता श्रमेण उपलक्षितं मां प्रलोभ्य कथंचिद्धतम् । कथंचिदित्यनेन चिरं लक्ष्यवधाप्राप्तिोत्यते। मृगत्वं कुतो गतमित्यत्राह-स इति । सः म्रियमाणः सन् राक्षस एवाभूदित्यर्थः ॥२४॥ त्यादिपरुषम् अपि लक्ष्मणेत्यादि मधुरम् । यद्वा शब्दतो माधुर्योत्तरम् । अर्थतः परुषम् । इदं वक्ष्यमाणम् । आर्तवत आर्ताहमुवाच ॥ १७-२०॥ अपीति । सामन्यं, क्षेमम् अनपहरणरूपम् ॥ २१ ॥ सामग्यावाप्तिसंशये कारणमाह-यथेति, सार्धश्लोकमेकं वाक्यम् । प्रदीप्ताममितो दिशम्-सूर्याधिष्ठिता दिक प्रदीप्ता तो दिशम् अभिमुखं वाश्यन्ते नदन्ति, अतः राजपुत्र्याः स्वस्ति भवेदपि किमिति सम्बन्धः ॥२२॥ इदमिति । मृगसन्निकाशं रक्षः कथं जातमत आह-राक्षसोऽभून्द्रियमाण स०-कथनित् महता श्रमेणेति लोकानुकरणम् ॥ २४ ॥
For Private And Personal Use Only