SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir भयङ्करत्वेन रोमहर्षणमित्युच्यते। पूर्वमेव मारीचस्वरेण परिशङ्कितः सातशङ्कःस रामः तस्य गोमायोः स्वरम् आज्ञाय श्रुत्वा चिन्तयामास॥३॥ चिन्ता मेवाह-अशुभमित्यादिना । गोमायुः यथा येन प्रकारेण वाश्यते शब्दायते तेन प्रकारेणाशुभं मन्ये । अपिः सम्भावनायाम् ॥४॥ मारीचेनेत्यादिश्लोकद्वय मेकान्वयम् । मृगरूपेण मारीचेन मामक मदीयं स्वरं विज्ञाय मामकं स्वरम् आलम्ब्य अनुमृत्य। विकुष्टं हा सीते लक्ष्मणेत्याह्वानेनोडोषितं स्वरम्,लक्ष्मणः स तस्य स्वरमाज्ञाय दारुण रोमहर्षणम् । चिन्तयामास गोमायोः स्वरेण परिशङ्कितः॥३॥ अशुभंवत मन्येऽहं गोमायुर्वाश्यते यथा । स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना ॥४॥मारीचेन तु विज्ञाय स्वरमालम्ब्य माम कम् । विकृष्टं मृगरूपेण लक्ष्मणः शृणुयाद्यदि ॥५॥ स सौमित्रिः स्वरं श्रुत्वा तां च हित्वा च मैथिलीम् । तयैव प्रहितः क्षिप्रं मत्सकाशमिहैप्यति ॥६॥ राक्षसैः सहितनं सीताया ईप्सितो वधः। काञ्चनश्च मृगो भूत्वा व्यप नीयाश्रमात्तु माम् ॥७॥ दूरं नीत्वा तु मारीचोराक्षसोऽभूच्छराहतः।हालक्ष्मण हतोऽस्मीति यदाक्यं व्याजहार च ॥ ८॥ अपिस्वस्ति भवेत्ताभ्यां रहिताभ्यां महावने। जनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैः॥९॥ शृणुयाद्यदि तदा स सौमित्रिमिकं स्वरं श्रुत्वा तं स्वरं श्रुतवत्या तया सीतया च प्रेषितः सन् इह देशे मत्सकाशं मत्समीपम एष्यति ॥५॥६॥राक्षस रित्यादिश्लोकद्वयमेकान्वयम् । यद्यस्मान्मारीचः काञ्चनः मृगो भूत्वा मामाश्रमाव्यपनीय दूरं नीत्वा मया हतः सन् राक्षसोऽभूत् लक्ष्मण हतोऽस्मीति वाक्यं व्याजहार च तस्मात्वचित्साहितै राक्षसैः सीताया वधः ईप्सितः। नूनम् ॥ ७॥८॥ जनस्थाननिमित्तं जनस्थानवासनिमित्तेन । निमित्तकारण यथा भाव्यशुभं तथा वाशत इत्यर्थः । वैदेह्या वैदेो । राक्षसैर्भक्षणं विना तत्कर्तृकभक्षणाभावरूपं स्वस्ति स्यादित्यर्थः । अपिः कामप्रवेदने ॥ ५॥ मारीचेने त्यादि श्लोकद्वयमेकं वाक्यम् । मारीचः मामकं स्वरमालक्ष्य अवधार्य, तेनावधारणेन अनुकृतं विज्ञाय मारीचेनानुकृष्टं सीते लक्ष्मणेति चाहानेन उद्घोषितं । स्वरं लक्ष्मणः शृणुयाद्यदि श्रुत्वा तयैव प्रहित. क्षिप्रामहेष्यतीति सम्बन्धः ॥५॥ ६॥राक्षसरित्यादिश्लोकद्वयमेकं वाक्यम । यद्यस्मान्मारीचः काञ्चनमृगो भूत्वा । मामाश्रमायपनीय आकृष्य दूरं नीत्वा हा लक्ष्मण हतोस्मीति वाक्यं व्याजहार । यस्माच्छराहतः शरेण हतस्सन राक्षसोऽभूत तस्मात सहितैः कुत्रचिन्मिलितः राक्षसनूनं सीताया बध इप्सित इत्यन्वयः ॥ ७॥ ८॥ अपीति । रहितामिया नियुक्ताभ्यान ॥९॥१०॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy