________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
राक्षसपक्ष ॥६॥ तस्येति । विधमिप्यन्ति ध्मास्यन्ति निपातयिप्यन्तीत्यर्थः । गङ्गेत्यविभक्तिकनिर्देशः, गङ्गाया ऊर्मय इत्यर्थः ॥ ७ ॥ त्वं सुरासुरे।। यद्यप्यवध्यः तथापि तस्य रामस्य सुमहद्वैरं कोपमुत्पाद्य स्थितस्त्वं जीवन् सन् तच्छरपातान्न मोक्ष्यस न मुक्तो भविष्यसीत्यर्थः ॥ ८ ॥ सः स०५६
तस्य ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाः । शरीरं विधमिष्यन्ति गङ्गा कूलमिवोर्मयः ॥७॥ असुरैर्वा सुरैर्वा त्वं यद्यवध्योऽसि रावण । उत्पाद्य सुमहद्वैरं जीवंस्तस्य न मोक्ष्यसे ॥८॥ स ते जीवितशेषस्य राघवोन्तकरो बली । पशो!पगतस्येव जीवितं तव दुर्लभम् ॥ ९॥ यदि पश्येत् स रामस्त्वां रोषदीप्तेन चक्षुषा । रक्षस्त्वमद्य निर्दग्धो गच्छेः सद्यः पराभवम् ॥ १०॥ यश्चन्द्र नभसो भूमौ पातयेन्नाशयेत वा। सागरं शोषयेदापि स सीतां मोचयेदिह ॥११॥गतायुस्त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः । लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति ॥ १२॥न ते
पापमिदं कर्म सुखोदकै भविष्यति । याऽहं नीता विनाभावं पतिपात्त्विया वने ॥ १३ ॥ राघवः । ते जीवितशेषस्य अन्तकरः नाशं कर्तुं समर्थः । तस्मात् यूपगतस्य पशोरिव रामापराधिनस्तव जीवितं दुर्लभम् ॥ ९॥ यदीति ।। हरक्षः ! सः रामः त्वां रोपदीप्तेन चक्षुपा यदि पश्येत् तदा त्वं निर्दग्धः सन् सद्यः पराभवं गच्छेः, निर्दग्धशब्देनातीव पीडितत्वमुच्यते ॥१॥ नभसः आकाशात् पातयत् नाशयेत वा अदर्शनं प्रापयेता सागरमपि शोषयेत् । सः सीतां मोचयेदिति किमुत ॥ ११॥ त्वत्कृतेन परदाराभिमशनरूपपापेन त्वम् आयुरादिहीनो भविष्यसि, लङ्का च वैधव्यसंयुक्ता अनाथत्वयुक्ता भविष्यति । “आयुर्बलं यशो लक्ष्मीः परदाराभिमर्शनात् । सद्य एव विन श्यन्ति" इति स्मृतः ॥ १२॥ न त इति । याऽहं वने पतिपार्थात् विनाभावं वियोग नीता । तस्यां मयि ते इदं पापं कर्म सुखोदक न भविष्यति, वरं क्रोधमुत्पाद्य तत्सन्निधिं प्राप्तः ततो जीवन्न मोक्ष्यसे, तस्य मनुष्यत्वादिति भावः॥८॥ तदेवाह-अन्तम नाशकरः ॥ ९॥ रक्षः इति रावणसम्बोधनम् । हे रावण ! रामस्त्वां रोषदीप्तेन चक्षुषा यदि पश्येत तदेव निर्दग्धो भवेः । तदा न पश्येदनिर्दग्धस्सन पराभवं पलायनं गच्छेः ॥ १०॥ ११॥ गताय रिति । त्वत्कृतेन त्वन्नाशनिमित्तेन । यद्वा त्वत्कृतेनापराधेनेति शेषः ॥ १२ ॥ याहमित्यादि सार्धश्लोकद्वयमेकं वाक्यम् । याहं नीता यदहं नीता अविवक्षितलिङ्ग
॥१३६॥
For Private And Personal Use Only