________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
जातेति भावः ॥ ३६ ॥ एवमिति । मन्यते अमन्यत ||३७|| इति श्रीगो० श्रीरामा० रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ॥५५ ॥ तथैतच्छ्रुत्वा परुषं भाषमाणायाः सीतायाः पुनरशोकवनिकानयनं षट्पञ्चाशे सा तथेत्यादि । अन्तरतो मध्ये, पतित्रतायाः परपुरुषं प्रत्यभिमुखतया भाषणायोगात् ॥ १ ॥ धर्मसेतुः धर्मस्य सेतुरिव मर्यादास्थापकः इत्यर्थः । अचलः स्थिरः । परिज्ञातः प्रसिद्धः, कथमेतादृशकुलं प्राप्ताऽतिचरेदिति भावः एवमुक्त्वा दशग्रीवो मैथिलीं जनकात्मजाम् । कृतान्तवशमापन्नो ममेयमिति मन्यते ॥ ३७॥ इत्यार्षे श्रीरामायणे वाल्मीकी आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥
सा तथोक्ता तु वैदेही निर्भया शोककर्शिता । तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत ॥ १ ॥ राजा दशरथो नाम धर्मसेतुरिवाचलः । सत्यसन्धः परिज्ञातो यस्य पुत्रः स राघवः ॥ २ ॥ रामो नाम् स धर्मात्मा त्रिषु लोकेषु विश्रुतः । दीर्घबाहुर्विशालाक्षो दैवतं हि पतिर्मम ॥ ३ ॥ इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः । लक्ष्मणेन सह भ्रात्रा यस्ते प्राणान् हरिष्यति ॥ ४ ॥ प्रत्यक्षं यद्यहं तस्य त्वया स्यां धर्षिता बलात् । शयिता त्वं हतः सङ्ख्ये जनस्थाने यथा खरः ॥ ५ ॥ य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः । राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा ॥ ६ ॥
॥ २ ॥ सः दशरथपुत्रः दैवतं सर्वलोकानामिति शेषः । य एवम्भूतः स मे पतिरिति योजना । कथमेवम्भूतभर्तृकाऽतिचरेदिति भावः ॥ ३ ॥ इक्ष्वाकूणा मिति । त्वद्वधार्थमेव आत्रा सह इक्ष्वाकुकुलेऽवतीर्ण इति भावः । तथाच न मे त्वत्तो भयमिति भावः ॥ ४ ॥ तर्हि कथमिदानीं स तूष्णीं स्थित इत्या शङ्कयाह- प्रत्यक्षमिति । प्रत्यक्षं यथा तथा यदि धर्षिता स्यां तदा त्वं हतः सन् युद्धे शयिता म्रियेथा इत्यर्थः ॥ ५ ॥ य इति । निर्विषाः निर्वीर्या इति मिति । मन्यते अमंस्त । अत्र रसाभासः ॥ ३७॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां पञ्चपञ्चाशः सर्गः ॥५५॥ ति । अन्तरतः कृत्वा मध्ये कृत्वा, साक्षात्पापात्मक पर पुरुषसम्भाषणदोषपरिहारायेति भावः ॥ १ ॥ परिज्ञातः प्रसिद्धः । धर्मसेतुः धर्मस्य सेतुरिव मर्यादा
. लिष्ठापकः ॥ २-४ ॥ तस्य रामस्य ॥ ५-७ ॥
स० [तृणमन्तरतः मध्ये कृत्वा प्रत्यमाषतेत्यर्थः । अनेन रावणस्यामाभ्यत्वं योत्यते । वायसासुरशासनं तृणनैव मम पत्या कृतम्, दशानन! तवापि दशा तथा स्यादिति योतयितुमिति वा ॥ १ ॥
For Private And Personal Use Only