________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
आकुश्य विनिन्द्य॥३८॥ तामिति । भर्तुतिरं न किञ्चिदुवाचेति आश्वासनव्याजेन गमनविलम्बं करोतीति कोपेनेति शेषः ॥३९॥ किञ्चिदिति कोपमिश्र त्वात् किश्चित्प्रणामः । बहुशोऽन्वीक्षमाण इति कथमेनामेकाकिनी त्यक्त्वा गमिष्यामीत्यनुशयेन बहुशोऽन्वीक्षणम् । आत्मवान् धैर्यवान् । अस्मिन् । समें सार्धचत्वारिंशच्लोकाः॥४०॥ इति श्रीगोविन्दराज श्रीरामायणभूषणे रत्नमेखलाल्याने आरण्यकाण्डव्याख्याने पञ्चचत्वारिंशः सर्गः ॥१५॥
इति लक्ष्मणमाक्रुश्य सीता दुःखसमन्विता। पाणिभ्या रुदती दुःखादुदरं प्रजघान ह ॥ ३८॥ तामार्तरूपा विमना रुदन्तीं सौमित्रिरालोक्य विशालनेत्राम् । आश्वासयामास न चैव भर्तुस्तं भ्रातरं किञ्चिदुवाच सीता॥३९॥ ततस्तु सीवामभिवाद्य लक्ष्मणः कृताञ्जलिः किञ्चिदभिप्रणम्य च । अन्वीक्षमाणो बहुशश्च मैथिली जगाम रामस्य समीप मात्मवान् ॥ ४० ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चचत्वारिंशः सर्गः ॥४५॥
तया परुषमुक्तस्तु कुपितो राघवानुजः। स विकांक्षन भृशं रामं प्रतस्थे नचिरादिव ॥१॥
तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः। अभिचक्राम वैदेही परिव्राजकरूपधृत् ॥२॥ अथ सीतायाः लक्ष्मणविषयपरुपभाषणफलं दर्शयत्येकादशभिः सर्गः। रावणप्रलोभनमाह पदचत्वारिंशे-तया परुपमित्यादि । विकासन अनिच्छता नेव राममुद्दिश्य प्रतस्थे । नचिरादिव अविलम्बितमेव । इवशब्दो वाक्यालङ्कार इति वा । यद्वा नचिरादिव सीतात्यागासहिष्णुतया पादौ पश्चादाक र्षितः रामप्राप्तित्वरा तु पुरतः कर्षतीतीवशब्दस्य भावः॥१॥ तदिति । आस्थितः अवकाशं प्रतीक्षमाणः स्थितो दशग्रीवः । तदेव अन्तरम् अव अभिवाद्य नमस्कृत्य अभिप्रणम्य प्रवीभूय अन्वीक्षमाणः कपमेना रामेण विना कृत्वा गमिष्यामीत्याशयेन बहुशो निरीक्षणम् ॥ ४० ॥ इति श्रीमहेश्वरतीय विरचितार्या श्रीरामायणतत्त्वदीपिकाख्यांयामारण्यकाण्डव्याख्यायो पश्चचत्वारिंशः सर्गः ॥ ४५ ॥ तयेति । नचिरादिव शीघ्रमेवेत्यर्थः॥२॥ अन्तरं रामलक्ष्मणयो -अनेन श्रीगो जातिअंशकरापदि अग्निप्रवेशो न दोषाव सर्वप्रायश्चित्तं चेति वनितम् । कदाप्यन्यं पुरुष न स्पृशे इत्यन्वयः । पत्र पत्यसानिध्य इति शेषः । तेन विराधस्पर्सेपि न हानिः । तदा पत्तिसैनिधानात् ।। किव साक्षाद्भगवतीस्परों रावणो विराधवचक्षणादेव नियेत । एवं सर्वराक्षसवधो न स्वादिति मार सीतारचना । किश्चास्य कार्य हनुमत्पुच्छामिना लङ्कादाहः । अन्यथा रावणवशेन लोकपालामिना कर तमगरदाहः स्यात् ! एतच्छक्तिप्रवेशेन तु तत्कार्यसामर्थ्य तस्येति मन्तव्यम् । किनं प्रतिचाप रावणस्पर्श जगन्मातुः प्रतिक्षामाः स्यात् । सशे स्पर्शनं च पतित्वेन स्वीकरणम् ॥ ३७॥
स-तेनेव रखोरूपेणाऽऽगमने न प्रत्यानयनं सीतायाः स्यादिति वेषान्तरेणागमनं चेद् गृहस्थवेषेण कुतो नागतिरिति चेन्न; मध्येसंवादं रामागतो समरसमारम्मो मवेदिति मतिमान् वयं यतिवेषस्तदनारम्मक
For Private And Personal Use Only