________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
माह कृतास्त्र इति । संहितास्त्रत्वात् अस्त्रमोचनावकाशलाभायापासर्पदिति भावः। निमित्तान्तरमाहरुधिराप्लुतमिति । तत्स्पर्शबीभत्सेनापसर्पणमित्यर्थः। यद्यपि रणे किश्चिदपसर्पणं शूरस्यायुक्तम् तथापि सर्वतो बलवती ह्यन्यथानुपपत्तिः इति न्यायेनापसर्पणं विना तत्संहारहेत्वलाभादपसर्पणं न दोष इति हृदयम् ॥२३॥ तनि०-संरम्धम् अतिक्रुद्धम् । आपतन्तम् आयुधप्रसारणानवकाशतया अतिसन्निकृष्टमागच्छन्तम् । तत्र हेतुः त्वरितविक्रम इति । शस्त्रसन्धानावकाशार्थ ततः पावकसङ्काशं वधाय समरे शरम् । खरस्य रामो जग्राह ब्रह्मदण्डमिवापरम् ॥ २४॥ स तं दत्तं मघवता सुरराजेन धीमता। सन्दधेचापि धर्मात्मा मुमोच च खरं प्रति ॥२५॥ स विमुक्तो महाबाणो निर्घातसमनिस्वनः । रामेण धनुरायम्य खरस्योरसि चापतत् ॥२६॥ स पपात खरो भूमौ दह्यमानः शराग्निना । रुद्रेणेव विनिर्दग्धः
श्वेतारण्ये यथान्तकः ॥२८॥ स वृत्र इव वजेण फेनेननमुचिर्यथा। बलोवेन्द्राशनिहतो निपपात हतः खरः ॥२८॥ त्वरितविक्रमतया किश्चिदपासर्पदित्यर्थः । हेत्वन्तरमाह रुधिराप्लुतमिति । तदेहरुधिरस्य स्वस्मिन संश्लेषो भवेदिति जुगुप्सयेत्यर्थः । इदमेवाभिप्रेत्य वेदान्ताचायेंरुक्तम्"कचिदतिसङ्करविषये सुभटानामभिमतोयमपसर्पः" इति ॥२३॥ ततः बाणपातावसरलाभात् । ब्रह्मदण्डं ब्रह्मशापम् ॥२४॥ धीमता भावज्ञेन दत्तम्, अगस्त्य मुखेनेति शेषः॥२५॥ रामेण धनुरायम्य आकृष्य विमुक्तः इत्यन्वयः॥२६ ।। स खरः शरामिना दह्यमानः सन् रुद्रेण रुदनेत्राग्निना दग्धोऽन्तक इव श्वेतारण्ये यथा श्वेतारण्य इव भूमौ पपात ॥२७॥ सः रामबाणेन इतः खरः। अमोघबाणहतत्वज्ञापनाय प्रथमो दृष्टान्तः। लीलया इतत्वज्ञापनाया। द्वितीयः । समाधिष्ठितत्वज्ञापनाय तृतीयः । आच्छुष्काच्चावध्यत्वं नमुचेलब्धं तदर्थ फेनेन हतः । बलो वेति वाशब्द इवार्थः । वृत्रादित्रयमिन्द्रेणैव विक्षेपस्सन प्रतिपदं प्रतीपं तिर्यमित्यर्थः । किश्चिदपासर्पत् अपमृतवान, अपसर्पणे हेत्वन्तरमाह रुधिराप्लुतमिति । तदेहरुधिरस्य स्वस्मिन् संश्लेषजुगुप्सयेत्यर्थः । यद्वा तं खरं वर्जयित्वा प्रतिपदं प्रतिमार्ग आगतेनैव मार्गेणापासर्पत अपागच्छत शरसन्धानसोकर्यार्थ द्वित्राणि पदानि किश्चित्पृष्ठतो गच्छतीत्यर्थः । क्वचिदति सङ्कट देशकालयोः वीरधुरन्धराणामपि सम्मतमिदमपसर्पणामिति भावः ॥ २३॥ उद्यन्तं ब्रह्मदण्डं ब्रह्मास्त्रमिष स्थितम् ॥ २४ ॥ २५ ॥ रामेण धनुरायम्य कर्णान्त माकृष्ण विमुक्तः स वाणः खरस्योरस्यपातयत अपतदित्यर्थः ॥२६॥ रुद्रेणेवेति ।इवशब्दो वाक्पालङ्कारे । श्वेतारण्यं कावेरीसिन्धुनिकटदेशः ॥२७॥ बलो वेत्यत्र
For Private And Personal Use Only