________________
Shri Mahavir Jain Aradhana Kendra
.रा.भू.
५१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरकाल एवापकर्तुरनिष्टावाप्तिं सूचयन् पृच्छति क इति । कृष्णेत्यमोघविषत्वव्यञ्जनाय । आसीनं निश्वलमित्यर्यः । आशिषि दंद्रायां विषं यस्येति सर्पविशेषणम् । पृषोदरादित्वात्सकारलोपः । “आशीरुरगदंद्रायां प्रियवाक्याभिषङ्गयोः " इति निघण्टुः । ईकारान्तोप्या शीशब्दो ऽस्ति । तुदति व्यथयति । अभिसमापन्नम् आभिमुख्येनागतमिति शीघ्रप्रतीकारमूलम् । अङ्गुल्यप्रेण लीलयेति प्रभावानभिज्ञत्वोक्तिः । अनेन स्वस्य लीलया | कः कृष्णसर्पमासीनमाशीविषमनागसम् । तुदत्यभिसमापन्नमङ्कल्यग्रेण लीलया ॥ ३ ॥ कः कालपाशमासज्यं कण्ठे मोहान्न बुद्धयते । यस्त्वामद्य समासाद्य पीतवान् विषमुत्तमम् ॥ ४ ॥ बलविक्रमसम्पन्ना कामगा काम रूपिणी । इमामवस्थां नीता त्वं केनान्तकसमा गता ॥ ५ ॥ देवगन्धर्वभूतानामृषीणां च महात्मनाम् । कोऽयमेवं विरूपां त्वां महावीर्यश्चकार ह ॥ ६ ॥ नहि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम् । अन्तरेण सहस्राक्षं महेन्द्रं पाकशासनम् ॥ ७ ॥
सद्यः प्रतीकारसामर्थ्य द्योतितम् || ३ || पुनरपि स्वमहिमानं प्रकटयन् शूर्पणखां चाश्वासयन् पृच्छति कः कालेति । यः कण्ठे कालपाशं मृत्युपाशम् आसज्य आवध्य न बुध्यते, उत्तरक्षणे स्वमरणं न जानातीत्यर्थः । यश्व त्वाम् आसाद्य प्राप्य उत्तमं विषं कालकूटं पीतवान् स क इत्यन्वयः । अत्र आसादनशब्देन विरूपकरणमुच्यते, त्वदासादनरूपं विषमित्यर्थः ॥ ४ ॥ अथ विस्मयेन पृच्छति - बलेति । इतो गता त्वं केनेमामवस्थां नीतेत्यन्वयः | ॥ ५ ॥ देवेत्यादि निर्धारणे षष्ठी । देवादीनां मध्ये अयम् एतादृशकार्यकर्ता कः एवं विरूपां चकार ॥ ६ ॥ स्वनिश्चयमाह-नहीति । अत्र तमित्यघ्या | अन्तकसमा त्वं केन इमामवस्थां नीता प्रापिता सती आगता अत्रेति शेषः ॥ ५ ॥ टीका बलमात्मशक्तिः । विक्रमः पराभिभवसामर्थ्यम् ॥ १ ॥ त्वं केन विरूपिता एवंरूपा जातेति शेषः । व्यक्तमाख्याहि क इति । अभिसमापन्नम् अभितः सम्यगापन्नम् । क्षुधितमाशीविषम् आशिषि दंष्ट्रायां विषं यस्य सः तम् । को वा तुदतीति प्रश्नः । तत्तुल्योऽयं त्वदवमान इति भावः । कः कालेति । न जानते इति पाठः न जानीते । बहुवचनमार्षम् । अयमपि प्रश्नः ॥ ६ ॥ नहि पश्यामीत्यन्तमेकं वाक्यम् तत्र तमित्यध्याहार्यम् । अमरेष्विति अत्र महेन्द्रशब्दो विशेष्यम् । पाकशासनसहस्त्राक्षशब्दों विशेषणे । एतेषु षष्ठयर्थे द्वितीया । यथा महेन्द्रस्येति दृष्टान्तः। 9 ( अमरेषु सहस्राक्षमिति पाठः) पार्क पाकारूपं वृत्रासुरभ्रातरं शासितवानिति पाकशासनम् । अन्तरेण सहस्राक्षं महेन्द्र पाकशासनामिति पाठे -महेन्द्रमन्तरेण इन्द्रं विना कः मम विप्रियं कुर्यात् तष नहि पश्यामीत्यन्वयः ॥ ७ ॥
For Private And Personal Use Only
टी.आ.क स० १९
॥ ५१ ॥