________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
॥४७
Ka
आश्रमं तपोवनम् । “तपोवने मठे ब्रह्मचर्यादावाश्रमोऽस्त्रियाम्" इति वाणः ॥३॥ पूर्वाहे भवं पौर्वाहिकम् ब्रह्मयज्ञादि न त्वनिकृत्यम्, अनुदितहोम त्वेन तस्य सूर्योपस्थानानन्तरभावित्वाभावात् । पर्णशालामुपागमत् आश्रमे पर्णशालातो बहिरेव कर्तव्यमनुष्ठाय वासस्थानमगमादित्यर्थः ॥ २॥ कथाः पुराणेतिहासकथाः । चकार उवाचेत्यर्थः। तथा चोक्तं धातुवृत्तौ “करोतिरभूतप्रादुर्भाव वर्तते अश्मानमितः कुरु पादं जले कुरु यः प्रथम
आश्रमं तमुपागम्य राघवः सह लक्ष्मणः। कृत्वा पौलिकं कर्म पर्णशालामुपागमत् ॥२॥ उवास सुखितस्तत्र पूज्य मानो महर्षिभिः ।लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः॥३॥स रामः पर्णशालायामासीनः सह सीतया। विर राज महाबाहुश्चित्रया चन्द्रमा इव ॥४॥ तथासीनस्य रामस्य कथासंसक्तचेतसः । तं देशं राक्षसी काचि दाजगाम यदृच्छया ॥५॥ सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः। भगिनी राममासाद्य ददर्श त्रिदशोपमम् ॥६॥ सिंहोरस्कं महाबाहुं पद्मपत्त्रनिभेक्षणम् । आजानुबाहुं दीप्तास्यमतीव प्रियदर्शनम् ॥ ७॥ गजविक्रान्त गमनं जटामण्डलधारिणम् । सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम् ॥ ८॥राममिन्दीवरश्याम कन्दर्पसदृश प्रभम् । बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता ॥९॥ सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी । विशालाक्षं विरू पाक्षी सुकेशं ताम्रमूर्धजा॥१०॥ शकलः परापतेत् सस्मरुः कार्यः चोरंकारमाकोशतीत्यादौ अवस्थापननिर्मलीकरणोपादानोच्चारणादी प्रयोगात् । चौरंकारमित्यत्र चोरशब्दसुच्चार्य प्रत्यर्थः । नात्र चोरः क्रियते अर्थनिर्देशस्तूपलक्षणम्” इति ॥३॥ चित्रया चित्रानक्षत्रेण । चित्रापौर्णमास्यामिति भावः॥ ४॥ रामस्यासीनस्य
राम आसीने ॥५॥ राक्षसीमृषिविशेषयति-सति । राममासाद्य ददर्श रामं दृष्ट्वाआससादेत्यर्थः । समानकर्तृकत्वमा ल्यप् ॥६॥ सिंहोरस्कं सिंडशन्दः श्रेष्ठवाची, विशालोरस्कमित्यर्थः। महासत्त्वं महाबलम् । पार्थिवव्यञ्जनानि राजलक्षणानि । कामकृतमोहहेतवो विशेषणानि॥७-१॥ तस्यास्तस्मिन् मनः ततः अवगाहनानन्तरम् ॥१॥ पौर्वाहिकी प्रातहोमादिकम् ॥२-४॥ कथासंसक्तचेतसः सतः याच्छया ॥ ५-१०॥
७
.
For Private And Personal Use Only