SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin रित्यन्वयः ॥ २१ ॥ २२ ॥ एतदिति । एतदुभयं मद्वचनं पौरजनवचनं चेत्यर्थः । सम्यक्सम्पश्य कर्त्तव्यं सम्यक् निरूपय । मां च स्पृश तथोदक मिति क्षत्रियाविहितप्रत्युपवेशनप्रायश्चित्तार्थमित्यर्थः । वसिष्ठादिषु विद्यमानेषु स्वस्पर्शनविधेः इतः परमेवंविधं न क्रियत इति शपथार्थ जलं स्पृष्ट्वा एतचैवोभयं श्रुत्वा सम्यक् सम्पश्य राघव । उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथादकम् ॥ २३ ॥ अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् । शृण्वन्तु मे परिषदो मन्त्रिणः श्रेणयस्तथा ॥ २४ ॥ न याचे पितरं राज्यं नानु शासामि मातरम् । आर्यं परमधर्मज्ञं नानुजानामि राघवम् ॥ २५ ॥ यदि त्ववश्यं वस्तव्यं कर्त्तव्यं च पितुर्वचः । अहमेव निवत्स्यामि चतुर्दश समा वने ॥ २६ ॥ धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मितः । उवाच रामः सम्प्रेक्ष्य पौरजानपदं जनम् ॥ २७ ॥ विक्रीत माहितं क्रीतं यत् पित्रा जीवता मम । न तल्लोपयितुं शक्यं मया वा भरतेन वा ॥ २८ ॥ उपधिर्न मया कार्यों वनवासे जुगुप्सितः । युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ॥ २९ ॥ मां स्पृशेत्यपि सिद्धम् ॥ २३ ॥ अथेत्यादि । न याचे न याचितवान् । नानुशासामि नानुशास्मि एवं कुर्विति नानुशिष्टवानस्मीत्यर्थः । नानुजानामि वनवासाय नानुज्ञातवानस्मीत्यर्थः ॥ २४ ॥ २५ ॥ यदीति । अवश्यं पितुर्वचः कर्तव्यं वने वस्तव्यं चेति यदि मन्यसे तार्ह अहमेव त्वत्प्रतिनिधित्वेन वने वत्स्यामि । त्वं तु मत्प्रतिनिधित्वेनाऽयोध्यां पालय, एवंच सत्युभाभ्यां सम्यक् पितृवचनं कृतं भवेदिति भावः । इति भरतो वाक्यमब्रवीदित्य न्वयः ।। २६ ।। २७ ।। विक्रीतमिति । आहितम् आधिरूपेण न्यस्तं विक्रयरुत्यागः क्रयः स्वीकार इति भेदः । मह्यं वनवासं दत्त्वा तन्मूल्यत्वेन राज्यं स्वीकृतवान् । यद्वा मम वनवासमाधिं कृत्वा तव राज्यं दापितवान् तल्लोपयितुं न शक्यमित्यर्थः ॥ २८ ॥ वारुणस्रानाशक्तस्य मान्त्रनानवदशक्तस्यैव सम्बन्धः ॥ २०-२२ ॥ एतदिति । एतदुभयं ' पुरवर्यामितः क्षिप्रमयोध्यां याहि राघव ' इति मद्वचनं 'एषोऽपि हि महाभागः पितुर्वचसि तिष्ठति' इत्यादिमहद्वचनं चोभयं श्रुत्वा सम्यक्संपश्य सम्यक परिगृहाण मां च स्पृश तथादकमित्युक्तिः क्षत्रिया विद्दित्तप्रत्युपवेशनप्रायश्चित्तार्थम् ॥ २३ ॥ २४ ॥ न याचे न याचितवानस्मि नानुशासामि एवं कुर्विति नानुशिष्टवानित्यर्थः । परमधर्मज्ञं नानुजानामि । नाभिजानामीतिपाठे आर्य बनबासोद्युक्तं न ज्ञातवानस्मीत्यर्थः । अवश्यं पितृवचनं कर्तव्यं वने वस्तव्यं चेति यदि मन्यसे अहमेव त्वत्प्रतिनिधित्वेन वने वत्स्यामि त्वं मत्प्रतिनिधित्वन अयोध्यां पालय, एवं च सत्युभाभ्यां पितृवचनं कृतं भवेदि त्यर्थः ॥ २५-२७ ॥ विक्रीतं द्रव्यं गृहीत्वा दत्तं वस्तु, आहितम् आधिरूपत्वेन न्यस्तं क्रीतम् द्रव्यं दत्त्वा गृहीतं वस्तु । उपधिः प्रतिनिधिः । मया वनवासकरण For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy