SearchBrowseAboutContactDonate
Page Preview
Page 836
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Hadhana Kendra सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाकीयावृत्तिः ॥४१६॥ www.kobatirth.org Acharya Shri Kailashsagaanmandir समुत्पद्यन्ते तेषां च त्रसानां सर्वेषां स्थावरकायसमुत्पन्नानां स्थानमेतद् घात्यं वर्तते तेन श्रावकेण स्थावर कायवधनिवृतेरकर - | णाद्, अतः सर्वस्य त्रसकायस्य स्थावरकायत्वेनोत्पत्तेर्निर्विषयं तस्य श्रावकस्य त्रसवधनिवृत्तिरूपं प्रत्याख्यानं प्राप्नोति, तद्यथा| केनचिद्वतमेवंभूतं गृहीतं यथा - मया नगरनिवासी न इन्तव्यः, तच्चोद्वसितं नगरम्, अतो निर्विषयं तत्तस्य प्रत्याख्यानम्, एव| मत्रापि सर्वेषां त्रसानामभावान्निर्विषयत्वमिति । एवमुदकेनाभिहिते सति तदभ्युपगमेनैव गौतमखामी दूषयितुमाह-सद्वाचं सवादं वा तमुदकं पेढालपुत्रं गौतमस्वाम्येवमवादीत्, तद्यथा - नो खल्वायुष्मन्नुदक ! अस्माकमित्येतन्मगधदेशे आगोपा| लाङ्गनादिप्रसिद्धं संस्कृतमेवोच्चार्यते तदिहापि तथैवोच्चारितमिति, तदेवमस्माकं संबन्धिना वक्तव्येन नैतदशोभनं किं तर्हि ?, | युष्माकमेवानुप्रवादेनैतदशोभनं इदमुक्तं भवति - अस्मद्वक्तव्येनास्य चोद्यस्यानुत्थानमेव, तथाहि--नैतद्भूतं न च भवति नापि कदाचिद्भविष्यति यदुत - सर्वेऽपि स्थावरा निर्लेपतया त्रसत्वं प्रतिपद्यन्ते, स्थावराणामानन्त्यात्रसानां चासंख्येयत्वेन तदाधार| त्वानुपपत्तेरित्यभिप्रायः, तथा त्रसा अपि सर्वेऽपि न स्थावरत्वं प्रतिपन्ना न प्रतिपद्यन्ते नापि प्रतिपत्स्यन्ते, इदमुक्तं भवति - | यद्यपि विवक्षितकालवर्तिनस्त्रसाः कालपर्यायेण स्थावरकायत्वेन यास्यन्ति तथापि अपरापरत्रसोत्पत्या त्रसजात्यनुच्छेदाच कदाचिदपि सकायशून्यः संसारो भवतीति, तदेवमस्मन्मतेन चोद्यानुत्थानमेव, अभ्युपगम्य च भवदीयं पक्षं युष्मभ्युपगमेनैव परिहियते तदेव पराभिप्रायेण परिहरति-अस्त्यसौ पर्यायः - स चायं भवदभिप्रायेण यदा सर्वेऽपि स्थावरास्त्रसत्वं प्रतिपद्यन्ते | यस्मिन्पर्याये - अवस्थाविशेषे श्रमणोपासकस्य कृतत्रसप्राणातिपातनिवृत्तेः सतः त्रसत्वेन च भवदभ्युपगमेन सर्वप्राणिनामुत्पत्तेः : तैश्च सर्वप्राणिभिनसत्वेन भूतैः - उत्पन्नैः करणभूतैस्तेषु वा विषयभूतेषु दण्डो निक्षिप्तः - परित्यक्तः, इदमुक्तं भवति यदा For Private And Personal ७ नाल न्दीयाध्य श्रावकप्र त्याख्यानस्य सविष यता ॥४१६॥
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy