SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ Shri Maharadhana Kendra www.kobatirth.org Acharya Shri Kailashsagyanmandir यद्यपगताशेषबन्धनः स्यां तत एनं महापुरुषमार्द्रककुमारं प्रतिबुद्धतस्करपञ्चशतोपेतं तथा प्रतिबोधितानेकवादिगणसमन्वितं परमया भक्त्यैतदन्तिकं गत्वा वन्दामीत्येवं यावदसौ हस्ती कृतसंकल्पस्तावत्रटत्रटदिति त्रुटितसमस्तबन्धनः सन्नार्द्रककुमाराभिमुखं प्रदत्त| कर्णतालस्तथोर्ध्वप्रसारितदीर्घकरः प्रधावितः, तदनन्तरं लोकेन कृतहाहारवगर्भकल कलेन पूत्कृतं - यथा धिक् कष्टं हतोऽयमार्द्रककुमारो महर्षिर्महापुरुषः, तदेवं प्रलपन्तो लोका इतश्चेतश्च प्रपलायमानाः (सन्ति), असावपि वनहस्ती समागत्यार्द्रककुमारसमीपं भक्ति- | | संभ्रमावनताग्रभागोत्तमाङ्गो निवृत्तकर्णतालस्त्रिः प्रदक्षिणीकृत्य निहितधरणीतलदन्ताग्रभागः स्पृष्टकराग्रतच्चरणयुगल : सुप्रणिहित| मनाः प्रणिपत्य महर्षिं वनाभिमुखं ययाविति । तदेवमार्द्रककुमार तपोऽनुभावाद्बन्धनोन्मुक्तं महागजमुपलभ्य सपौरजनपदः श्रेणिकराजस्तमार्द्रककुमारं महर्षि तत्तपःप्रभावं चाभिनन्द्याभिवन्द्य च प्रोवाच भगवन्नाश्चर्यमिदं यदसौ वनहस्ती तादृग्विधाच्छत्रा|च्छेद्याच्छृङ्खलाबन्धनाद्युष्मत्तपःप्रभावान्मुक्त इत्येतदतिदुष्करमित्येवमभिहिते आर्द्रककुमारः प्रत्याह - भोः श्रेणिक महाराज ! नैत| दुष्करं यदसौ वनहस्ती बन्धनान्मुक्तः, अपि खेतदुष्करं यत्स्नेहपाशमोचनं, एतच्च प्राङ्गनिर्युक्तिगाथया प्रदर्शितं । सा चेयं - "ण दुकरं वा णरपासमोयणं, गयस्स मत्तस्स वर्णमि रायं । । जहा उ चत्तावलिएण तंतुणा, सुदुकरं मे पडिहार मोयणं ॥ १ ॥ एवमार्द्रककुमारो राजानं प्रतिबोध्य तीर्थकरान्तिकं गत्वाऽभिवन्द्य च भगवन्तं भक्तिभरनिर्भर आसांचक्रे, भगवानपि तानि | पञ्चापि शतानि प्रव्राज्य तच्छिष्य वेनोपनिन्य इति ॥५४॥ साम्प्रतं समस्ताध्ययनार्थोपसंहारार्थमाह – 'बुद्धस्से' त्यादि, 'बुद्ध:' अवगततत्त्वः सर्वज्ञो वीरवर्द्धमानखामी तस्याज्ञया तदागमेन इमं 'समाधिं' सद्धर्मावाप्तिलक्षणं अवाप्यासिंश्च समाधौ सुष्ठु स्थिता मनोवाक्कायैः सुप्रणिहितेन्द्रियो न मिथ्यादृष्टिमनुमन्यते, केवलं तदावरणजुगुप्सां त्रिविधेनापि करणेन विधत्ते, स एवंभूत आ | For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy