________________
Shri Maha N
adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa hoy anmandir
Deeeeeeeeeeeeeeees
न्ते-एतैरुपभोगं ये कुर्वन्ति 'अन्योऽन्यं परस्परं तान् स्वकीयेन कर्मणोपलिप्तान विजानीयादित्येवं नो वदेत् , तथाऽनुपलिप्ता-1 निति वा नो वदेव , एतदुक्तं भवति-आधाकापि श्रुतोपदेशेन शुद्धमितिकृखा भुञ्जानः कर्मणा नोपलिप्यते, तदाधाकर्मोपभोगे-18 नावश्यतया कर्मबन्धो भवतीत्येवं नो वदेत् , तथा श्रुतोपदेशमन्तरेणाहारगृयाऽऽधाकर्म भुञ्जानस्य तनिमित्तकर्मबन्धसद्भावात् अतोऽनुलिप्तानपि नो वदेव , यथावस्थितमौनीन्द्रागमज्ञस्य खेवं युज्यते वक्तुम्-आधाकर्मोपभोगेन स्यात्कर्मवन्धः स्थानेति, यत उक्तम्-"किंचिच्छुद्धं कल्प्यमकल्प्यं वा स्यादकल्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्रं पात्रं वा भेषजाद्यं वा॥१॥" तथाऽन्यैरप्य| भिहितम्-"उत्पद्येत हि साऽवस्था, देशकालामयान्प्रति । यस्यामकार्य कार्य स्यात्कम कार्य च वर्जयेद् ॥१॥"इत्यादि ॥८॥ किमित्येवं स्याद्वादःप्रतिपाद्यत इत्याह-आभ्यां द्वाभ्यां स्थानाभ्यामाश्रिताभ्यामनयोर्वा स्थानयोराधाकर्मोपभोगेन कर्मबन्धभावाभावभूतयोव्र्यवहारो न विद्यते, तथाहि-यद्यवश्यमाधाकर्मोपभोगेनैकान्तेन कर्मबन्धोऽभ्युपगम्येत एवं चाहाराभावेनापि कचित्सु| तरामनर्थोदयः स्यात् , तथाहि-क्षुत्पपीडितो न सम्यगीर्यापथं शोधयेत् ततश्च वजन् प्राण्युपमईमपि कुर्यात् मृच्छादिसद्भावतया च देहपाते सत्यवश्यंभावी त्रसादिव्याघातोऽकालमरणे चाविरतिरङ्गीकृता भवत्यार्तध्यानापत्तौ च तिर्यग्गतिरिति, आगमश्च"सवत्थ संजमं संजमाओ अप्पाणमेव रक्खेज्जा"इत्यादिनापि तदुपभोगे कर्मबन्धाभाव इति, तथाहि-आधाकर्मण्यपि निष्पा-15 द्यमाने षड्जीवनिकायवधस्तद्वधे च प्रतीतः कर्मबन्ध इत्यतोऽनयोः स्थानयोरेकान्तेनाश्रीयमाणयोर्व्यवहरणं व्यवहारो न बुज्यते, तथा | ऽऽभ्यामेव स्थानाभ्यां समाश्रिताभ्यां सर्वमनाचारं विजानीयादिति स्थितम् ॥९॥ पुनरप्यन्यथा दर्शनं प्रति वागनाचारं दर्शयितुमाह
१ सर्वत्र संयम संयमादात्मानमेव रक्षेत् ।
coepencoercerescontoeneseseo
For Private And Personal