________________
Shri Man
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a nmandir
उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं उद्गजोणियाणं तसपाणाणं सरीरा णाणावण्णा जावमक्खायं ॥ (सूत्रं ५९)
अथानन्तरमेतद्वक्ष्यमाणं 'पुरा' पूर्वमाख्यातं, 'इह' असिन् जगत्येके सवास्तथाविधकर्मोदयाद् नानाविधयोनिकाः सन्तोयावकर्मनिदानेन 'तत्र' तस्मिन्वातयोनिकेऽपूकाये 'व्युत्क्रम्य' आगत्य 'नानाविधानां' बहुप्रकाराणां 'त्रसानां दर्दुरप्रभृतीनां 'स्थावराणां च हरितलवणादीनां प्राणिनां सचित्ताचित्तभेदभिन्नेषु शरीरेषु तदपूकायशरीरं वातयोनिकखादप्रकायस्य वायुनोपादानकारणभूतेन सम्यक् 'संसिद्धं' निष्पादितं तथा वातेनैव सम्यग् गृहीतमभ्रकपटलान्तनिवृत्तं तथा वातेनान्योऽन्यानुगतखात्परिगतं तथोर्ध्वगतेषु वातेषूद्धभागी भवत्यप्कायो, गगनगतवातवशादिवि संमूच्र्छते जलं, तथाऽधस्ताद्गतेषु वातेषु तद्वशाद्भवत्यधोभागी अपकायः, एवं तिर्यग्गतेषु वातेषु तिर्यग्भागी भवत्यप्कायः, इदमुक्तं भवति-वातयोनिकखाद कायस्य यत्र यत्रासौ तथाविधपरिणामपरिणतो भवति तत्र तत्र तत्कार्यभूतं जलमपि संमृच्छेते, तस्य चाभिधानपूर्वकं भेदं दर्शयितुमाह-तद्यथा'ओसत्ति अवश्यायः 'हिमयेति शिशिरादौ वातेरिता हिमकणा महिका:-धृमिकाः करकाः-प्रतीताः 'हरितणुय'त्ति तृणाग्रव्यवस्थिता जलबिन्दवः शुद्धोदकं-प्रतीतमिति । 'इह' अस्मिन्नुदकप्रस्तावे एके सत्त्वास्तत्रोत्पद्यन्ते स्वकर्मवशगास्तत्रोत्पन्नास्ते | जीवास्तेषां नानाविधानां त्रसस्थावराणां खोत्पत्याधारभूतानां स्नेहमाहारयन्ति, ते जीवास्तच्छरीरमाहारयन्ति, अनाहारका न भवन्तीत्यर्थः, शेषं सुगमं यावदेतदाख्यातमिति ॥ तदेवं वातयोनिकमपकायं प्रदाधुनाएकायसंभवमेवाप्कायं दर्शयितुमाहअथापरमाख्यातं 'इह' असिन् जगति उदकाधिकारे वा एके सत्त्वास्तथाविधकर्मोदयाद्वातवशोत्पन्नत्रसस्थावरशरीराधारमुदकं
For Private And Personal