________________
Acharya Shri Kailashsag
Shri Maha
www.kcbatirth.org
a nmandir
r adhana Kendra
टर
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीला-1 कीयावृत्तिः
पौण्डरीकाध्य अहिंसापरिभावना साधोः
॥२९९॥
ममापि विशिष्टं भविष्यतीत्येवं नाशंसां विदध्यात्, तथाऽमुना सुचरिततपोनियमब्रह्मचर्यवासेन तथाऽमुना वा यात्रामात्रावृत्तिना धर्मेणानुष्ठितेन 'इतः' असाद्भवाच्युतस्य 'प्रेत्य' जन्मान्तरे स्वामहं देवः, तत्रस्थस्य च मे वशवर्तिनः कामभोगा भवेयुः अशेषकर्मवियुतो वा सिद्धोऽदुःखः (अशुभः) शुभाशुभकर्मप्रकृत्यपेक्षयेत्येवंभूतोऽहं स्यामागामिनि काल इत्येवमाशंसां न विदध्यादिति, यदिवा विशिष्टतपश्चरणादिनाऽऽगामिनि काले ममाणिमालघिमेत्यादिकाऽष्टप्रकारा सिद्धिर्भविष्यतीत्यनया च सिद्ध्या सिद्धोऽहमदुःखोऽशुभो मध्यस्थ इत्येवंरूपामाशंसां न कुर्यात् । तदकरणे च कारणमाह-'एत्थवि' इत्यादि, 'अत्रापि विशिष्टतपश्चरणे सत्यपि कुतश्चिनिमित्ताहुष्प्रणिधानसद्भावे सति कदाचित्सिद्धिः स्यात्कदाचिच्च नैवाशेषकर्मक्षयलक्षणा सिद्धिः स्यात् , तथा चोक्तम्-"जे जत्तिया उ हेऊ भवस्स ते चेव तत्तिया मोक्खे" इत्यादि । यदिवाऽत्राप्यणिमाद्यष्टगुणकारणे तपश्चरणादौ सिद्धिः स्यात्कदाचिच्च न स्यात्-तद्विपर्ययोऽपि वा स्यादिति, एवं व्यवस्थिते प्रेक्षापूर्वकारिणां कथमाशंसा कर्तुं युज्यते इति, सिद्धिश्वाष्टप्रकारेयं-अणिमा १ लघिमा २ महिमा ३ प्राप्तिः ४ प्राकाम्यं ५ ईशखं ६ वशिख ७ यत्रकामा॑वसायिखमिति ८, तदेवमैहिकार्थमामुष्मिकार्थ कीर्तिवर्णश्लोकाद्यर्थ च तपो न विधेयमिति स्थितम् ॥ साम्प्रतमनुकूलप्रतिकूलेषु शब्दादिषु विषयेषु रागद्वेपाभावं दर्शयितुमाह-स भिक्षः सर्वाशंसारहितो वेणुवीणादिषु शब्देषु 'अमूच्छितः' अगृद्धोज्नध्युपपन्नः, तथा रासभादिशब्देषु कर्कशेषु अद्विष्टः, एवं रूपरसगन्धस्पर्शेष्वपि वाच्यमिति । पुनरपि सामान्येन क्रोधाद्युपशमं दर्शयितुमाह-'विरए कोहाओ। इत्यादि, क्रोधमानमायालोभेभ्यो विरत इत्यादि सुगम यावदिति 'से महया आयाणाओ उवसंते उवट्टिए पडिविरए १ इच्छाऽनमिषातः । २ स्थावरेष्वप्याज्ञाकारित्वं । ३ भूमावप्युन्मजननिमजने । ४ सत्यसंकल्पता ।
॥२९९॥
393929
For Private And Personal