________________
Acharya Shri Kailashsagabupaanmandir
Shri Mano Aradhana Kendra
www.kobatirth.org भ्युपपन्नो नान्यनियत्यादिकं कारणमस्तीति, तदेवाह-तद्यथा-योऽहममि 'दुक्खामि'त्ति शारीरं मानसं दुःखमनुभवामि तथा शोचामि-इष्टानिष्टवियोगसंप्रयोगकृतं शोकमनुभवामि, तथा 'तिप्पामित्ति शारीरबलं क्षरामि, तथा 'पीडामित्ति सबाह्याभ्यन्तरया पीडया पीडामनुभवामि, तथा 'परितप्पामित्ति परितापमनुभवामि, तथा 'जूरामित्ति अनार्यकर्मणि प्रवृत्तमात्मानं गर्हामि, अनर्थावाप्तौ विसूरयामीत्यर्थः, तदेवं यदहं दुःखमनुभवामि तदहमेवाकार्ष, परपीडया कृतवानसीत्यर्थः, तथा परोऽपि यहःखशोकादिकमनुभवति मयि वाऽऽपादयति तत्स्वयमेव कृतमिति, तदेव दर्शयति-'परो वेत्यादि, तथा परोपि यन्मां दुःख। यति शोचयतीत्यादि प्राग्वनेयं तत्सर्वमहमकार्षमित्येवं द्वाभ्यामाकलितोज्ज्ञो वा बाल एवं 'विप्रतिवेदयति जानीते स्वकारणं IS वा परकारणं वा सर्व दुःखादि पुरुषकारकृतमिति जानीते एवं पुरुषकारकारणमापन्न इति ॥ तदेवं नियतिवादी पुरुषकारकारण
वादिनो बालखमापाद्य स्वमतमाह-मेधा-मर्यादा प्रज्ञा वा तद्वान् मेधावी-नियतिवादपक्षाश्रयी एवं विप्रतिवेदयति-जानीते, कारणमापन्न इति नियतिरेव कारणं सु(दुः)खाद्यनुभवस्य, तद्यथा-योऽहममि दुःखयामि शोचयामि तथा 'तिप्पामित्ति क्षरामि 'पीडामिति पीडामनुभवामि 'परितप्पामिति परितापमनुभवामि, नाहमेवमकार्षे दुःखम् , अपि तु नियतित एवैत-13 न्मय्यागतं, न पुरुषकारादिकृतं, यतो न हि कस्यचिदात्माऽनिष्टो येनानिष्टा दुःखोत्पादादिकाः क्रियाः समारभते, नियत्यैवासाव| निच्छन्नपि तत्कार्यते येन दुःखपरम्पराभाग्भवति, कारणमापन इति परेऽप्येवमेव योजनीयम् । एवं सति नियतिवादी मेधावीति सोल्लण्ठमेतत् , स किल नियतिवादी दृष्टं पुरुषकारं परित्यज्यादृष्टनियतिवादाश्रयेण महाविवेकीत्येवमुल्लण्ठ्यते, स्वकारणं परकारणं च दुःखादिकमनुभवन्नियतिकृतमेतदेवं विप्रतिवेदयति-जानाति नात्मकृतं नियतिकारणमापनं, कारणं चात्रैकस्यासदनुष्ठानरतस्यापि
सूत्रकृ. ४९
For Private And Personal