________________
Shri Mahavit
Aadhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag
a nmandir
eeeeeeeeeeeeeeeeeeeeeeeeeerak
वाया घोलेइ कंठमझमि । कहकहकहेइ हिययं देहित्ति परं भणंतस्स ॥१॥ गतिभ्रंशो मुखे दैन्यं, गावखेदो विवर्णता । मरणे | यानि चिह्नानि, तानि चिह्नानि याचके॥१॥" इत्यादि, एवं दुस्त्यजं याच्यापरीपहं परित्यज्य गताभिमाना महासत्त्वा ज्ञानाद्य| भिवृद्धये महापुरुषसेवितं पन्थानमनुव्रजन्तीति । श्लोकपश्चाद्धेनाऽऽक्रोशपरीपहं दर्शयति'-पृथग्जनाः' प्राकृतपुरुषा अनार्यकल्पा 'इत्येवमाहुः' इत्येवमुक्तवन्तः, तद्यथा-ये एते यतयः जल्लाविलदेहा लुश्चितशिरसः क्षुधादिवेदनाग्रस्तास्ते एते पूर्वाचरितैः कर्म भिरातः पूर्वस्वकृतकर्मणः फलमनुभवन्ति, यदिवा-कर्मभिः-कृष्यादिभिरार्ताः-तत्कर्तुमसमर्था उद्विग्नाः सन्तो यतयः संवृत्ता इति, तथैते 'दुर्भगाः सर्वेणैव पुत्रदारादिना परित्यक्ता निर्गतिकाः सन्तः प्रव्रज्यामभ्युपगता इति ॥ ६ ॥
एते सद्दे अचायंता, गामेसु णगरेसु वा । तत्थ मंदा विसीयंति, संगामंमिव भीरुया ॥७॥ अप्पेगे खुधियं भिक्खु, सुणी डंसति लूसए । तत्थ मंदा विसीयंति, तेउपुट्ठा व पाणिणो॥८॥ 'एतान्' पूर्वोक्तानाक्रोशरूपान् तथा चौरचारिकादिरूपान् शब्दान् सोडुमशक्नुवन्तो ग्रामनगरादौ तदन्तराले वा व्यवस्थिताः || 'तत्र' तसिन् आक्रोशे सति 'मन्दा' अज्ञा लघुप्रकृतयो 'विषीदन्ति' विमनस्का भवन्ति संयमाद्वा भ्रश्यन्ति, यथा भीरवः। 'संग्रामें रणशिरसि चक्रकुन्तासिशक्तिनाराचाकुले रटत्पटहशङ्खझल्लरीनादगम्भीरे समाकुलाः सन्तः पौरुषं परित्यज्यायशःपटहमङ्गीकृत्य भज्यन्ते, एवमाक्रोशादिशब्दाकर्णनादल्पसत्त्वाः संयमे विषीदन्ति ॥ ७॥ वधपरीपहमधिकृत्याह-'अप्पेगे' इत्या
ecoerceaeeeeeeeeeeeeeeeeeeerai
For Private And Personal